सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 309, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 309

सम्भूत्वा च मयोत्क्षोभम बलात् कुर्महे वयम्।
हठात् कुर्वति शक्रे तु कथं ब्रूहि सहामहे ॥१४८॥
ते चासुरा हता देवैस्ते बभूवुः प्रमादिनः।
अप्रमत्तास्तु किं नैव बलिप्रभृतयो हताः ॥१४९॥
इत्याद्युक्तो मयेनाथ मन्दोदर्या सहैव सः।
राक्षसेश्वरमामन्त्र्य जगाम वसतिं निजाम् ॥१५०॥
सूर्यप्रभादिभिर्युक्तः सुनीथोऽथ मयेन सः।
निन्ये तृतीयं पातालं बलिं राजानमीक्षितुम् ॥१५१॥
स्वर्गादप्यधिके तत्र सर्वे ते ददृशुर्बलिम्।
आमुक्ताहारमुकुटं वृतं दितिजदानवैः ॥१५२॥
निपेतुः पादयोस्तस्य सुनीथाद्याः क्रमेण ते।
सोऽपि तान् मानयामास सत्कारेण यथोचितम् ॥१५३॥
मयावेदितवृत्तान्तहृष्टः सोऽथ बलिस्ततः।
प्रह्लादमानायितवांष्ठीघ्रमन्यांश्च दानवान् ॥१५४॥
तानप्यत्र सुनीथाद्याः पादयोस्ते ववन्दिरे।
तेऽप्याप्यभिननन्दुस्तान् प्रह्लादानन्दनिर्भराः ॥१५५॥
तत्राऽथ बलिराह स्म भूत्वा चन्द्रप्रभो भुवि।
सुनीथः स्वतनुप्राप्त्या प्रत्युज्जीवित एष यः ॥१५६॥
सुमुण्डीकावतारश्च प्राप्तः सूर्यप्रभोऽप्ययम्।
शर्वेण चायमादिष्टो भावी विद्याधरेश्वरः ॥१५७॥
एतच्चप्रभावाच्च जातोऽहं क्षतबन्धनः।
तदेताभ्यामवाप्ताभ्यां ध्रुवमभ्युदयोऽस्ति नः ॥१५८॥
एतद्वलिवचः श्रुत्वा शुक्रः प्रोवाच सद्गुरुः।
धर्मेण चरतां सत्ये नास्त्यनभ्युदयः क्वचित् ॥१५९॥
तस्माद् धर्मेण वर्तध्वं कुरुताद्यापि मद्वचः।
तच्छ्रुत्वा दानवास्तत्र तथेति नियमं व्यधुः ॥१६०॥
सप्त पातालपतयो ये तत्र मिलितास्तथा।
बलिद्वात्रोत्सवं चक्रुः सुनीथप्राप्तिहर्षतः ॥१६१॥
अत्रान्तरे च तत्रायात् पुनर्नारदो मुनिः।
गृहीतार्योपविष्टश्च दानवांस्तानुवाच सः ॥१६२॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 309, कुल 1079 में से · SarvaKosh