सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 301, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 301

२७२ कथासरित्सागर
इति यावत्स नृपतिर्विचिकित्सन् विसम्भ्रमे ।
तावद्विवदमानौ द्वौ तत्र विप्रावुपैयतुः ॥१०३॥
तौ तं दृष्ट्वा नृपं तस्य पुरो न्यायार्थमूचतुः ।
एकोऽब्रवीत्प्रदत्ता मे गौरनेन सवत्सिना ॥१०४॥
तां मे प्रतिवदानस्य हस्ताद् गृह्णात्यसौ न किम् ।
अथापरोऽभ्यधाद्याहं कृतपूर्वप्रतिग्रहः ॥१०५॥
न धाषिता मे तत्कस्माद् ग्राहयत्येष मां बलात् ।
एतच्छ्रुत्वा नृपोऽवादीदाक्षेप्तायं न शुष्यसि ॥१०६॥
प्रतिगृह्य कथं दात्रे बलात् प्रतिददाति गाम् ।
इत्युक्तवन्तं तं भूपं शक्रो रम्भान्तरोऽब्रवीत् ॥१०७॥
राजन् जानासि चेदेवं न्याय्यं तज्जापकाद्विजात् ।
वरमभ्यर्थ्य सम्प्राप्तं कस्माद् गृह्णासि नामृत ॥१०८॥
ततो निरुत्तरो राजा जापकं तं जगाद सः ।
भगवन् स्वजपस्यार्थात् फलं वितर मे वरम् ॥१०९॥
बाढमेवं जपस्यार्थात् मदीयस्यास्तु ते फलम् ।
इति तस्मै ततो राज्ञे जापकः स वरं ददौ ॥११०॥
सर्वलोकगतिं लेभे तेन राजा स सोऽपि च ।
जापकः सनिवास्यानं देवानां लोकमाप्तवान् ॥१११॥
तत्र स्थित्वा बहून् कल्पान् पुनरागत्य भूतले ।
प्राप्य स्वतन्त्रतां योगात् सिद्धिं लेभे च शाश्वतीम् ॥११२॥
एवं स्वर्गाद्विबिमुखैः सिद्धेरेवाभ्यर्थते बुधैः ।
सा त्वयाप्ता स्वतन्त्रस्तद्राजन् स्वं वेश्माविश ॥११३॥
इत्युक्तः प्रसयोगेन मयेन मुमुदे परम् ।
सदारतनयामात्यो राजा चन्द्रप्रभोऽथ सः ॥११४॥
ततो द्वितीयं पाताल नीत्वा तेन मयेन सः ।
प्रावेश्यत गृहं दिव्यं पुत्रादिसहितो नृपः ॥११५॥
तत्रान्तर्ददृशुस्ते च सर्वं सुप्तमिव स्थितम् ।
महान्तमेकं पुरुषं पवित्रं शयनोत्तमे ॥११६॥
महौषधिघृताभ्यक्तं विकृताकृतिभीषणम् ।
विषण्णवदनाम्भोजदैत्यराजसुतामृतम् ॥११७॥