कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 291, कुल 1079 में से
संदर्भ में पढ़ें२४२ कथासरित्सागर
न शक्राद्भो भयं कार्यं स च स्याच्छङ्कराद्गणः।
पक्षे देवगणे सार्धमस्मद्देशेण संयुगे॥३३॥
तवसख्या महाराज प्रह्लादादिष्विवा वयम्।
युष्मत्पक्ष स्थिता एव हसिता वत्यदानवे॥३४॥
कृतप्रसादे चास्माकमुद्युक्ते त्रिपुरान्तके।
वराकस्यापरस्यास्ति कस्य शक्तिर्जगत्त्रये॥३५॥
तद्वीरा कुरुतोद्योगं कार्येऽस्मिन्नित्युदीरिते।
मयेन हृष्टा सर्वे ते तत्तथेवेति मेनिरे॥३६॥
अथ दूतोक्तसन्देशात् सर्वे तत्राययुः क्रमात्।
नृपा वीरभटाश्चास्ते ये चान्ये मित्रबान्धवाः॥३७॥
कृतोचितसपर्येषु¹ ससैन्येष्वेषु राजसु।
पुनश्चन्द्रप्रभं भूपमुवाचेदं मयासुरः॥३८॥
कुरुष्वमद्य रुद्रस्य रात्रौ राजन् महाबलिम्।
ततो यथाहं वक्ष्यामि तथा सर्वं विधास्यथ॥३९॥
एतन्मयवचः श्रुत्वा राजा चन्द्रप्रभोऽथ सः।
रुद्रस्य बलिसम्भारं कारयामास तत्क्षणम्॥४०॥
ततो गत्वाटवीं रात्रौ मये कर्मोपदेष्टरि।
चन्द्रप्रभः स्वयं चक्रे बलिं रुद्रस्य भक्तितः॥४१॥
होमकर्मप्रवृत्ते च राज्ञि तस्मिन्नथाद्भुतम्।
साक्षादाविरभूत्तत्र नन्दी भूतगणाधिपः॥४२॥
सोऽर्चितो विधिवद्राज्ञा प्रहृष्टनेदमब्रवीत्।
मन्मुखेनेदमादिष्टं स्वयं देवेन शम्भुना॥४३॥
अपि शस्त्रशतान् मा भूद् भयं वो मत्प्रसादतः।
सूर्यप्रभश्चक्रवर्ती भवितैव शुभाशिषाम्॥४४॥
इत्युक्त्वशङ्करादद्यो गृहीतबलिभागकः।
नन्दीश्वरो भूतगणैः सह तत्र तिरोबधे॥४५॥
ततश्चन्द्रप्रभो जातप्रत्ययस्तनयोदये।
बलिं समाप्य होमान्ते विवेश रमयं पुरम्॥४६॥
१ कृता उचिता=योग्या सपर्या=सत्कारो येषां तेषु ।