कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 287, कुल 1079 में से
संदर्भ में पढ़ें२५८ कथासरित्सागर
भुक्ता भोगा इमे भौमा भवद्भिरधुना च वः।
कालोऽन्येषां तदुपभोगे मतिं कुरुत साम्प्रतम् ॥६॥
दूतान् प्रध्यानयध्वं स्वान्नृपान् सम्बन्धिबान्धवान्।
ततो विद्याधरेन्द्रेण मिलिष्यामः सुमेरुणा ॥७॥
क्षेष्यामः श्रुतशर्माणि प्राप्स्यामः खचराश्रियम्¹।
सुमेरुश्च सहायत्वं अन्त्युबुद्ध्या स्थितोऽत्र नः ॥८॥
रक्षो सूर्यप्रभं दद्यास्त्वं चैतस्मै निजां सुताम्।
इत्यादावेव देवेन स ह्यादिष्टः पिनाकिना ॥९॥
एवं मयासुरेणोक्ते प्रहस्तादीन् सखेश्वरान्।
चन्द्रप्रभः प्रहितवान् दूतान् सर्वमहीभृताम् ॥१०॥
सूर्यप्रभश्च विद्याभिः स्वभार्या मन्त्रिणोऽखिलान्।
सविमेजे मयावशात् संविभक्ता न ये पुरा ॥११॥
सूर्यप्रभास्थाने नारदमुनेरागमनम्
तावच्चात्र स्थितष्वेव प्रभाभासितदिक्मुखः।
अवतीर्याम्बरात्साक्षाद्रदो मुनिराययौ ॥१२॥
गृहीतार्घोपविष्टश्च स चन्द्रप्रममब्रवीत्।
प्रेषितोऽहमिहेन्द्रेण तेन चोक्तमिदं तव ॥१३॥
ज्ञातं मया यद्युष्माभिर्महेश्वरनिवेशतः।
मयासुरसखैः सूर्यप्रभस्याज्ञानमोहितैः ॥१४॥
अस्य मर्त्यशरीरस्य संसाधयितुमिष्यते।
सर्वविद्याधराधीशचक्रवर्तिपदं महत् ॥१५॥
तदयुक्तं यदस्माभिर्दत्तं हि श्रुतशर्मणे।
विद्याधरकुलाम्पिन्दोस्तच्च तस्य क्रमागतम् ॥१६॥
अस्माकं प्रातिपद्येण धमबाधेन चैव यत्।
कुरुध्ये तद्विनाधाय निन्दितं च प्रकल्पते ॥१७॥
पूर्वं च रुद्रयज्ञेन यजमानो भवान् मया।
प्राप्यञ्स्वाश्वमयेनेत्युक्तं च कृतवान् न तम् ॥१८॥
१ खे=आकाशे चरन्तीति खचरा=विद्याधराः तेषां श्रियं=राजलक्ष्मीम्।