कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 285, कुल 1079 में से
संदर्भ में पढ़ें२५६ कथासरित्सागर
बहुवसुभूरिनिधानं सन्न महाभोगिना तदाध्युषितम्।
सुर'-दानव'-भुजग'-नगरैः कृतमिव तच्छाकलं विभौ॥१८६॥
ततो मदनसेनया सह स तत्र सूर्यप्रभो
यथामिमतभोगभुक्सकलपूर्णसम्पत्सुखी ।
उवास पितृसंयुतः ससचिवोऽन्यपत्नीयुत
श्कृतागमनसंविदं मयमुदीक्षमाणोऽन्वहम्॥१८७॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके
प्रथमस्तरङ्गः
द्वितीयस्तरङ्गः
चत्रप्रभसभायां मयदानवस्यापगमनम्
अथ तत्रैकदास्थानस्थितं चन्द्रप्रभे नृपे।
सूर्यप्रभे च तत्रस्थे समग्रसचिवान्विते॥१॥
सिद्धार्थोदीरितकथाप्रसङ्गेन मये स्थिते।
अकस्मादत्र वसुधा सभामध्ये व्यदीर्यत॥२॥
ततो भूविवरादादौ सद्यन्धः सुरभिर्मरुत्।
आविरासीत्ततः पश्चादुज्जगाम मयासुरः॥३॥
शृङ्गोन्नतांसधिरः पृथुह्रस्वस्नेहमहौषधिः।
रक्ताम्बरोष्ठमद्धातुमिश्रायामिव पर्वत॥४॥
यथार्हकृतपूजश्च राजा चन्द्रप्रभेण सः।
रत्नासनोपविष्टः सन् दानवेन्द्रोऽभ्यभाषत॥५॥
१ सुरनगरं = स्वर्गः; बहवो वसवः तन्नामका देवता यत्र तत्तादृशम्; शाकलं नगरं च
बहु = भूरि वसु = धनं यत्रेति बहुवसु ।
२ यक्षस्य = कुबेरस्य नगरं भूरिनिधानं शङ्कादिवपुष्करम् शाकलं च भूरिनिधानम्
= इतरस्याविशेषपुष्करम्।
३ पाताल भुजगनगरं महाभोगिना = सर्पराजा वासुकिना अध्युषितम् = अधिष्ठि-
तम् शाकलं नगरञ्च महाभोगिना महाविलासिना सूर्यप्रभेनाधिष्ठितम्।
४ विहितागमनसुसंवादम्। ५ आस्थानं = सभा गृहम्। ६ तत्र वार्त्तायामेव मयान्
निर्गतासीत्।