सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 279, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 279

२५ कथासरित्सागर
विद्याधराश्च धरणी भियेव शरणाथिनः ।
शिरोभिश्च शरीरैश्च पतुश्चन्द्रप्रभाग्रतः ॥१४८॥
सूर्यप्रभो बभौ शोकदृष्ट्या रुधरधिया।
सिन्दूरेणेव कीर्णेन नभोऽभूवसृजारुणम् ॥१४९॥
सूर्यप्रभश्च सम्प्राप्य युयुधे तेन सम्मुखम् ।
खड्गचर्मधरणेव सह दामोदरेण सः ॥१५०॥
युध्यमानश्च करजप्रयोगेण प्रविश्य सम् ।
खड्गखण्डितधर्माणं रिपुं भूमावपातयत् ॥१५१॥
छेत्तुमिच्छति यावच्च शिरस्तस्य विहस्ततः ।
तावदागत्य नभसा हुङ्कारो विष्णुना कृतः ॥१५२॥
तच्छ्रुत्वा वीक्ष्य च हरिं नम्रस्तद्गौरवेण सः ।
दामोदरममुञ्चत बन्धात् सूर्यप्रभस्ततः ॥१५३॥
बद्धमुक्तं तमादाय भक्तं क्वापि ययौ हरिः ।
भगवान्स हि सद्‌भक्तमिहामुत्र च रक्षति ॥१५४॥
दामोदरानुगास्तं च ययुः सर्वे यतस्ततः ।
सूर्यप्रभोऽपि गगनात् पितुः पार्श्वमबातरत् ॥१५५॥
सामारयमक्षतप्राप्तं पिता चन्द्रप्रभस्य तम् ।
अभ्यनन्दद्युपाद्धान्त्ये सुदृढुर्द्दष्टविक्रमम् ॥१५६॥
ततोऽत्र यावत्सर्वे ते दृष्टास्तत्कथया स्थिताः ।
आगात् सुभटसम्बन्धी तावद्दूतोऽपरस्ततः ॥१५७॥
स च चन्द्रप्रभस्यैव लेखमग्रे समर्पयत् ।
तमुद्घाट्य च सिद्धार्थः सदस्येवमवाचयत् ॥१५८॥
श्रीमान्प्रतववंशमौक्तिकमणिश्चन्द्रप्रभो भूपती
राजा धीसुभटेन सादरमिदं धीकोङ्कणाद् बोध्यते ।
नीता मे सनयापहृत्य रजनी सन्त्वेन भ्नापि या ।
सा प्राप्ता तय सूनुनेत्यवगतं यत्तेन तुष्टा वयम् ॥१५९॥
तद्युक्तेन सुतेन तेन सह तत्सूर्यप्रभगोद्यमो ।
युष्माभिः क्रियताममङ्गलमिहाप्यस्मद्गृहाभ्यागमं
यावतां परराक्त पुनरिव प्रत्यागतामारजां
पश्यामश्च विपाङ्गकर्मण्युना श्वर्भेश्च तस्या वयम् ॥१६१॥