कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 275, कुल 1079 में से
संदर्भ में पढ़ें२४६ कथासरित्सागर
ज्ञातं चेहाद्य मत्प्राप्ता हस्तं सूर्यप्रभस्य सा ।
तया सह सोऽस्माकं गृहमायात्वशङ्कितः ॥११८॥
सत्कृत्य प्रेषयिष्यामि सभार्यं च यथाविधि ।
अन्यथा शत्रवो यूयं मम युष्माकमप्यहम् ॥११९॥
इत्युक्त्वा स्वामिवचनं दूतस्तूष्णीं बभूव सः ।
अथ चन्द्रप्रभः सर्वानैकान्ते क्षितिपोऽब्रवीत् ॥१२०॥
कथमद्य सदर्पोक्तैर्गम्यते तस्य वेश्मनि ।
तच्छ्रुत्वा तस्य सिद्धार्थनामा मन्त्र्येवमभ्यधात् ॥१२१॥
नान्यथा देव मन्तव्यं वक्तुमद्य हि सोऽर्हति ।
स हि राजा महादाता पण्डितः सत्कुलोद्गतः ॥१२२॥
शूरोऽश्वमेधयाजी च सदैवान्यपराजितः ।
विरुद्धं किं नु तेनोक्तं यथावस्तुमभिधायिना ॥१२३॥
शत्रुतोद्वाह्यता मा वा सा प्राप्तप्रकृतेऽधुना ।
तद् गन्तव्यं गृहे तस्य सत्यसन्धो नृपो हि सः ॥१२४॥
तदपि प्रेष्यतां कश्चित्तस्य चित्तोपसम्भये ।
इति सिद्धार्थवचनं सर्वे ददृशुरत्र ते ॥१२५॥
ततो जिज्ञासितुं चन्द्रप्रभस्तं जनमेजयम् ।
प्रहस्तं व्यसृजत्तं च दूतं तस्याप्यानयत् ॥१२६॥
प्रहस्तश्च स गत्वा तं कौशाम्बीशं ससंविदम् ।
विधायानीय तल्लेखं चन्द्रप्रभमतोषयत् ॥१२७॥
सोऽपि राजा तमेवाशु प्रहस्तं प्रेष्य धान्ध्रकात् ।
जनमेजयपार्श्वं तां परपुष्टामनाययत् ॥१२८॥
ततश्चन्द्रप्रभाद्यास्ते सूर्यप्रभपुरोगमाः ।
सकान्तिसेना कौशाम्बीं विमानेनागमन् नृपाः ॥१२९॥
तत्र सम्बन्धिजामातृमुख्यान् प्रत्युद्गमादिना ।
प्रहृस्तान्युपभामास स राजा जनमेजयः ॥१३०॥
ददौ च कृत्वा दुहितुर्विवाहविधिसत्क्रियाम् ।
पञ्च हस्तिसहस्राणि लक्षं च वरवाजिनाम् ॥१३१॥
रत्नकाञ्चनवस्त्रेषुपूगगगपूरित ।
मारेर्भतानामुष्ट्राणां सहस्राण्यपि पञ्च सः ॥१३२॥