कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 271, कुल 1079 में से
संदर्भ में पढ़ें२४२ कथासरित्सागर
तत्प्राप्ता से सुता स्यानं कर्मणस्त्व तु प्रार्थितः ।
तत्प्रीयस्व सखा नस्त्वमेष्यामोऽत्राप्यमी वयम् ॥८९॥
इति राज्ञोक्तसन्देशः प्रहस्तो गगनेन सः ।
गत्वा प्रहरमात्रेण वज्ररात्रमवाप सत् ॥९०॥
तत्र रम्भाय सन्देशमुक्त्वा तेनानुमोदितः ।
तथवागत्य सोऽवादीद्राज्ञे चन्द्रप्रभाय तत् ॥९१॥
चन्द्रप्रभोऽथ सचिवं प्रभासं प्रप्य शाकलात् ।
आनाययत्तां रम्भस्य पार्श्वे तारावलीं सुताम् ॥९२॥
ततो ययौ विमानेन सह सूर्यप्रभेण सः ।
राज्ञा वीरभटेनापि सर्वैश्चान्यै सुपूजितः ॥९३॥
वज्ररात्रं च सम्प्राप मार्गोन्मुखजनाकुलम् ।
रम्भेणाभ्युद्गतस्तस्य राजधानीं विवेश सः ॥९४॥
तत्र रम्भोऽप्यसौ क्लृप्तविवाहप्रक्रियोत्सवः ।
असङ्ख्यहस्त्यश्वरत्नादि दुहितुर्ददौ ॥९५॥
जामातरं च स तथा सूर्यप्रभमुपाचरत् ।
यथा यस्य निजा भोगा सर्वे विस्मृतिमाययुः ॥९६॥
यावच्च तत्र ते तिष्ठन्त्युत्सवानन्दिताः सुखम् ।
तावद्रम्भान्तिकं काञ्चीनगर्या दूत आययौ ॥९७॥
स तस्माच्छ्रुतसन्देशो रम्भश्चन्द्रप्रभं नृपम् ।
प्राह काञ्चीश्वरो राजा कुम्भीराख्योऽस्ति मेऽग्रजः ॥९८॥
तेनाप्त प्रेषितो मेऽद्य दूतो वक्तुमिदं वचः ।
मम सूर्यप्रभेणाद्य सुता नीता ततस्त्व ॥९९॥
कृतं चाद्य त्वया सख्यं तै सहति मया श्रुतम् ।
तन्ममापि तथैव त्वं सख्यं तैः सह साधय ॥१००॥
आयान्तु ते मम गृहं यावत्सूर्यप्रभाय ताम् ।
स्वहस्तेनार्पयामीह सुतां वरणसेनिकाम् ॥१०१॥
इत्येपाम्यर्थना तस्य क्रियतामिति वादिनः ।
रम्भस्य शुश्रुवे चन्द्रप्रभो राजा तदा वचः ॥१०२॥
प्रहस्तं प्रेष्य च क्षिप्रं शाकलात्तामनाययत् ।
पुराद्व्रजसेनां स कुम्भीरस्यान्तिकं पितुः ॥१०३॥