कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 267, कुल 1079 में से
संदर्भ में पढ़ें२४८ कथासरित्सागर
मातुलं च सहायातं तस्य ससम्भ्रमं सानुगम्।
चक्रे मुण्डितमूर्धानं सत्कान्ताहरणैषिणम् ॥५९॥
भार्याबन्धू इति क्रुद्धोऽप्यवधीन्न स तावुभौ।
दर्पभङ्गलक्षी तु विहस्य प्रतिमुक्तवान् ॥६० ॥
ततः स नवभिः सूर्यप्रभः कान्ताभिरन्वितः।
पित्राहूतो विमानेन स्वपुरं शाकलं ययौ ॥६१॥
ततश्चास्य पितुश्चन्द्रप्रभभूमिभृतोऽन्तिकम्।
प्राहिणोत्ताम्रलिप्तीतो दूतं वीरभटो नृपः ॥६२॥
सन्निवेशं च पुत्रेण तव मेऽभूदृते सुते ।
तदस्तु विलासिभ्यो हि श्लाघ्य एष पतिस्तयोः ॥६३॥
स्नेहश्च यदि वोऽस्मासु तदिहागच्छताधुना।
विवाहाचारसंस्कारस्तस्य यावद्विदध्महे ॥६४॥
एतच्छ्रुत्वा स सत्कृत्य दूतं निश्चितवांस्तदा।
श्व एव तत्र गमनं राजा चन्द्रप्रभो द्रुतम् ॥६५॥
सत्यत्वनिश्चयं ज्ञातुं राज्ञो वीरभटस्य तु।
प्रहस्तं प्राहिणोमत्त्वा दूरं द्रुतगमागमी ॥६६॥
स प्रहस्तो जवाद् गत्वा दृष्ट्वा वीरभटं च तम्।
नृपं दृष्ट्वा च तत्कार्यं तच्छ्रितैस्सुपूजितः ॥६७॥
तस्मै सविस्मयायोक्त्वा प्रभूणां प्रातरागमम्।
मुहूर्तेनाययौ चन्द्रप्रभपार्श्वं विहायसा ॥६८॥
शशंस तस्मै राज्ञे च सज्जं वीरभटं स्थितम्।
सोऽपि तं सचिवं सूनोस्तुष्टो राजाभ्यपूजयत् ॥६९॥
ततः कीर्तिमतीदेव्या सह चन्द्रप्रभः प्रभुः।
सूर्यप्रभो विलासिन्या तथा मदनसेनया ॥७० ॥
भूतासनमानं तदारुह्य सपरिच्छदौ।
सामात्यौ चापरेद्युस्तो प्रातः प्रययतुस्ततः ॥७१॥
अह्नः प्रहरमात्रेण ताम्रलिप्तीमवापतुः ।
दृश्यमानौ जनैर्व्योम्नि कौतुकोत्क्षिप्तलोचनैः ॥७२॥
नभस्तरावतीर्णौ च कृतप्रत्युद्गमेन तौ।
राजा वीरभटेनैतां क्षमं विविशतुः पुरीम् ॥७३॥