सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 253, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 253

२२४ कथासरित्सागर
अथ नरवाहनदत्तो विनीतगगनाङ्गनागमनखदः ।
स विवेश राजधानीं पितृभिर्भार्यादिभिश्च समम् ॥२५९॥
तत्रोपागतमानितबन्धुसुहृत्स्वर्णकूटभूतकोषः ।
वसुभिस्तौ पूरितवान् प्राणधरश्वाशुरप्रतीहारौ ॥२६०॥
मुक्तोत्तरं च सपदि प्राणधरस्तं व्यजिज्ञपत् प्रणतः ।
देवावयोश्चिरेणं कर्पूरकभूभृता समादिष्टम् ॥२६१॥
आगन्तव्यं त्वरितं मद्दुहितरि भर्त्तृभवनमाप्तायाम् ।
येनाहं जानीयां सम्प्राप्तामत्र शीघ्रमिति ॥२६२॥
तद्गन्तव्यं निश्चितमावाभ्यां देव चतुरमधुनेव ।
दापय कर्पूरिकया राज्ञो लेखं स्वहस्तलिखितं नो ॥२६३॥
नहि तस्य सुतास्निग्धं हृदय राज्ञोऽन्यथा समाश्वसिति ।
स ह्यारूढविमानो न जातुचिच्छङ्कते प्रपातमतः ॥२६४॥
तल्लेखदानपूर्व्वं सम्प्रति सहितं मया प्रधानमिमम् ।
अनुजानीहि विमानप्रस्थानप्रोन्मुखं प्रतीहारम् ॥२६५॥
अहमादाय कुटुम्बकमेष्यामि पुनस्त्विहैव युवराज ।
शक्ष्यामि नामृतमयं चरणाम्भोजद्वयं तव त्यक्तुम् ॥२६६॥
इति तेन सुदृढमुक्ते प्राणधरेणैव वत्सराजसुतः ।
लेखस्य लेखने तां प्रयुङ्क्त कर्पूरिकां तदैव वधूम् ॥२६७॥
तात न चिन्ता मयि ते कार्या सर्वभर्तृसौख्यसवनभुवि ।
किं हि महाब्धेः कम्र्ला चिन्तास्पदमाधितोत्तप्तं पुश्खम् ॥२६८॥
इति च स्वहस्तलिखिते कर्पूरिकया तयार्पिते लेखे ।
कञ्चुकिप्राणधरौ तौ वत्सेशसुतार्धितौ स विससर्ज ॥२६९॥
तौ चारुह्य विमानं गगनगतौ जातविस्मयैः सर्वैः ।
दृष्टौ तीर्त्वा जलधिं ययतुः कर्पूरसम्भवं नगरम् ॥२७० ॥
तत्र सुतां पतिसदनप्राप्तां सम्भाव्य दत्तलेखौ तौ ।
आनन्दयाम्बभूवतुरथ तं कर्पूरकं नराधिपतिम् ॥२७१॥
अन्येद्युरनुज्ञाप्य प्राणधरस्तं नृपं स सकुटुम्बः ।
सम्भावितराज्यधरो नरवाहनदत्तपार्श्वमेवागात् ॥२७२॥
सोऽत्रागताय सद्यः कृतकार्य्यायारभमन्दिरसमीपे ।
नरवाहनदत्तोऽस्मै प्रददौ वसतिं च जीवनं च महत् ॥२७३॥