कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 251, कुल 1079 में से
संदर्भ में पढ़ें२३२ कथासरित्सागर
माता वासवदत्ता पद्मावत्या समं तमाश्लिष्य।
विगलितमिव तद्दर्शनदुःखग्रन्थिं जहौ बाष्पम्॥२४५॥
रत्नप्रभा च भार्या सानन्दा मदनमञ्जुका च तया।
तस्य प्रेमहतेर्यै धरणी हृदयं च जगृहतुस्तुल्यम्॥२४६॥
यौगन्धरायणादीन् पितृसखियान् स्वांश्च सोऽथ नृपसूनुः।
मरुभूतिमुख्यान् प्रगताननन्दयत् कृतयथार्हसत्कारः॥२४७॥
सर्वे च ते विभूषितसुदशार्हकुलेन जलधिमाक्रम्य।
समुपाभृतां स्वपतिना व्यक्तं सोदर्यसूर्त्तिममृतस्य॥२४८॥
अजराजनाशतयुतामायातीं श्रियमिवाभ्यनन्दंस्ताम्।
कर्पूरिकां नववधू वत्सेशाद्या यथोचितावनताम्॥२४९॥
तस्याश्च पैतृकं तं वत्सेश्वरोऽपूजयत् प्रतीहारम्।
अर्पितविमानवाहितकाञ्चनकर्पूरवस्त्रकोटिद्वयम् ॥२५०॥
आख्यातं नरवाहनदत्तेन ततो विमानकर्त्तारम्।
उपकारिणं स राजा प्राणधरं तमपि मानयामास॥२५१॥
कथमेषा राजसुता सम्प्राप्ता कथमितश्च यातौ स्वः।
इति पप्रच्छ सहर्ष संम्नाय स गोमुखं नृपतिः॥२५२॥
अथ मृगयावनगमनात् प्रभृति यथा दर्शनं तपस्विन्याः।
राज्यधरसमासादितविमानयुक्त्या यथा च तीर्णोऽब्धिः॥२५३॥
कर्पूरिका विवाहे विमुखापि च सम्मुखी यथा विहिता।
प्राणधरसामलब्धेनागमनं भ्राम्यया विमानेन॥२५४॥
युक्त्यैकान्ते स तथा तदशेषं गोमुखो यथावृत्तम्।
कथयाञ्चकार तस्मै सदारसचिवाय वत्सराजाय॥२५५॥
क्वासौट क्व च तापसी क्व च तमोदन्वत्तटे यन्त्रवि-
च्छक्षा राज्यधरस्मदीयवहननोल्लङ्घनं क्वाम्बुधेः।
तत्पारे च विमानकर्तुरपरस्यास्य क्व पूर्वं गति-
र्भव्यानां शुभसिद्धयुपायरचनाचिन्तां विधत्ते विधिः॥२५६॥
इति तैरखिलैः सविस्मयप्रमदाकम्पितमस्तकैस्ततः।
जगदे विन्ष्टे च गोमुख प्रभुभक्तिस्तुतिरत्न सादरेः॥२५७॥
रत्नप्रभा च राज्ञीं पतिव्रताधर्मजनितपरितोषाम्।
प्रशशंसुस्ते भर्तुर्निजविद्याविहितपररक्षाम्॥२५८॥