कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 243, कुल 1079 में से
संदर्भ में पढ़ें२१४ कथासरित्सागर
जातिस्मरोऽहं भूयासं राजपुत्रोऽन्यजन्मनि ।
एषा च तत्र मे भार्या भूयाज्जातिस्मरा सती ॥१८५॥
इति सङ्कल्प्य तं देहं तदा सस्मृत्य शङ्करम्।
विरहानलसन्तप्तं समुद्राम्भस्यपातयत् ॥१८६॥
ततोऽयं वत्सराजस्य कौशाम्ब्यां तनयोऽधुना।
नरवाहनदत्ताख्यो जातो जातिस्मरः शुभे ॥१८७॥
असौ विद्याधरेन्द्राणां चक्रवर्ती भविष्यति ।
इति वागुदभूद्दिव्या जातस्यास्य स्फुटं तदा ॥१८८॥
क्रमण यौवराज्यस्थः पित्राथ परिणायितः ।
दिव्यां कामरसम्भूतां देवीं मदनमञ्चुकाम् ॥१८९॥
ततो हेमप्रभाख्यस्य विद्याधरपतेः सुता।
एत्य स्वयं वृतवती कन्या रत्नप्रभेत्यमुम् ॥१९०॥
तथापि तां स्मरन्नृत्सीं नायं भजति निर्वृतिम्।
एतच्च बालभृत्याय मह्यमेतेन वर्णितम् ॥१९१॥
अथास्य मृगयायातस्यासीत्सन्दर्शनं वने ।
कयापि सिद्धतापस्या मद्वितीयस्य दैवतः ॥१९२॥
कथाप्रसङ्गात्सा चैतमेव सानुग्रहाब्रवीत्।
कर्मयोगात्पुरा पुत्र कामो हंसत्वमागतः ॥१९३॥
तस्य चाम्बुनिधीरतस्थचन्दनद्रुमवासिनः ।
प्रिया भार्याभवद्बत्सी दिव्यस्त्री शापतश्च्युता ॥१९४॥
वेलाजलहुतापरयशोकस्तस्यां च वारिधौ।
क्षिप्तात्मनि स हंसोऽपि तत्रेवात्मानमक्षिपत् ॥१९५॥
सोऽद्य शम्भोः प्रसादात्त्वं जातो वत्सेश्वरात्मजः ।
पूर्वजातिं च तां वत्स वेत्सि जातिस्मरो ह्यसि ॥१९६॥
सा ह्यस्त्येवमेवाम्भोः पारे कर्पूरसम्भवे।
पुरे कर्पूरिका नाम जाता राजसुताधुना ॥१९७॥
तद्गच्छ तत्र पुत्र त्वं प्रियां भार्यामवाप्स्यसि ।
इत्युक्त्वा सा समुत्पत्य तिरोभूत्सिद्धतापसी ॥१९८॥
अयं चास्मत्प्रभुर्जातप्रभृतिस्तत्क्षणं ततः।
इतोऽभिमुखमागन्तुं प्रावर्त्तत मया सह ॥१९९॥