कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 23, कुल 1079 में से
संदर्भ में पढ़ें१० कथासरित्सागर
तत्र विक्रमतुङ्गाख्यो राजाभूत्सत्त्ववान्पुरा।
योऽभूत्पराङ्मुखो दाने नार्थिनां न युधि द्विषाम्॥५५॥
स जातु मृगयाहेतो प्रविष्टो नृपतिर्वनम्।
बिल्वैर्होमं विदधतं तत्र ब्राह्मणमैक्षत॥५६॥
तं दृष्ट्वा प्रष्टुकामोऽपि परिहृत्य तदन्तिकम्।
ययौ स दूरं मृगयारसेन सबलस्ततः॥५७॥
उत्पतद्भिः पतद्भिश्च हन्यमानेः स्वपाणिना।
चिरं मृगैश्च सिंहैश्च क्रीडित्वा कन्दुकैरिव॥५८॥
आवृत्तस्त उपेयात्र दृष्ट्वा होमपरं द्विजम्।
उपेत्य नत्वा पप्रच्छ नाम होमफलं च सः॥५९॥
ततः स ब्राह्मणो भूपं कृताशीस्तमभाषत।
विप्रोऽहं नागशर्माख्यो होमे च श्रृणु मे फलम्॥६०॥
अनेन बिल्वहोमेन प्रसीदति यदानलः।
हिरण्मयानि बिल्वानि तदा निर्यान्ति कुण्डतः॥६१॥
ततोऽग्निः प्रकटीभूय वरं साक्षात् प्रयच्छति।
वर्त्तते मम भूयांश्च कालो बिल्वानि जुह्वतः॥६२॥
मन्दपुण्यस्य नाद्यापि तुष्यत्येव स पावकः।
इत्युक्ते तेन राजा तं धीरसत्त्वोऽभ्यभाषत॥६३॥
तर्हि मे देहि बिल्वं त्वमेकं यावज्जुहोमि तत्।
प्रसादयामि च ब्रह्मन्नधुनेव तवानलम्॥६४॥
कथं प्रसादयसि त्वं वह्निमप्रयतोऽप्यधि।
यो ममैवं प्रत्तस्तस्य पूतस्यापि न तुष्यति॥६५॥
इत्युक्तस्तेन विप्रेण राजा तमवदत्पुनः।
मैवं प्रयच्छ मे बिल्वं पश्याश्चर्यं क्षणादिति॥६६॥
ततः स राज्ञे विप्रोऽस्मै ददौ बिल्वं सकौतुकः।
राजा च स तथा तत्र वृद्धसत्त्वेन चेतसा॥६७॥
हुतेनानेन बिल्वेन न चेत्तुष्यति तच्छिरः।
स्वमग्ने ते जुहोमीति ध्यात्वा तस्मिञ्जुहाव तत्॥६८॥
प्राविरासीच्च सप्ताचिः कुण्डाद् बिल्वं हिरण्मयम्।
स्वयमादाय तत्तस्य फलं सत्त्वतरोरिव॥६९॥
जगाद च स साक्षात्तं जातवेदा महीपतिम्।
सत्त्वेनानेन तुष्टोऽस्मि तद्गृहाण वरं नृप॥७०॥