कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 227, कुल 1079 में से
संदर्भ में पढ़ें१९८ कथासरित्सागर
कर्पूरिकानवीत्सुक्यविनिद्र भ्रात्र तत्कथाम्।
पृच्छन्तमब्रवीद्राज्यधरोऽथ शयनस्थितः॥६६॥
किं न निद्रासि कल्याणिन्प्राप्स्यस्येवेप्सितां प्रियाम्।
उदारसत्त्वं वृणुते स्वयं हि श्रीरिवाङ्गना॥६७॥
प्रत्यक्षदृष्टमत्रेदं तथा च शृणु वच्मि ते।
यः स काञ्चीपतिर्बाहुबलो राजा मयोदितः॥६८॥
अर्थलोभस्य मानपरायाश्च कथा
तस्यान्वयोऽर्थलोभाख्यः प्रतीहारोऽर्थवानभूत्।
तस्य मानपरा नाम भार्याभूद्रूपशालिनी॥६९॥
सोऽर्थलाभा वणिग्धर्माल्लाभाद् भृत्येष्वविश्वसन्।
वणिज्याव्यवहारेषु मध्ये भार्या न्ययुक्त ताम्॥७०॥
सानिच्छन्त्यपि तद्वश्या वणिग्भिः संव्यवाहरत्।
मधुरेणाहृतजना रूपेण वचनेन च॥७१॥
गजाश्वरत्नवस्त्रादिविक्रयं च व्यधत्त सा।
तं तं चोपजयं दृष्ट्वा सोऽर्थलोभोऽन्वमोदत॥७२॥
एकदा चात्र कौशाम्ब्याद् दूराद्देशान्तराद्वणिक्।
महान्सुखधनो नाम प्रभूताश्वादिभाण्डधृत्॥७३॥
तं धृष्ट्वैवागतं भार्यामर्थलोभोऽब्रवीत्स ताम्।
वणिक्सुखधनो नाम प्राप्तो देशान्तरादिह॥७४॥
प्रिये वाजिसहस्राणि तेनानीतानि विंशतिः।
क्षौमवस्त्रसहस्रयुग्मान्यगणमानि च॥७५॥
शृङ्गाश्वाश्वसहस्राणि पञ्च तस्मादुपानय।
क्रीत्वा सहस्रयुग्मानां सहस्राणि तथा दश॥७६॥
यावदश्वसहस्रैः स्वैस्तथा तैरपि पञ्चभिः।
करोमि दर्शनं राज्ञो वणिज्यां विदधामि च॥७७॥
एवमुक्त्वाऽर्थलोभेन प्रेषिता तेन पाप्मना।
आगाम्मानपरा तस्य पार्श्वं सुखधनस्य सा॥७८॥
मागति स्म च मूल्येन तान्वस्त्रसहितान्हयान्।
उचितस्वागतात्तस्मात्प्रापूतकोचधुपः ॥७९॥
स च तां कामविवशां नीत्वैकान्तेऽब्रवीद्वणिक्।
मूल्येन वस्त्रमर्कं ते हय वा म ददाम्यहम्॥८०॥