सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 225, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 225

१९६ कथासरित्सागर

इहैव भद्र वस्तव्यं गन्तव्यं नान्यतस्त्वया।
आहारकाले चारुह्य स्थातव्यं मध्यमे पुरे ॥५१॥
इत्युक्त्वान्तर्हिते तस्मिन् प्रबुद्धोऽहमचिन्तयम्।
दुष्पारनिर्मितमिदं दिव्यस्थानं सुनिश्चितम् ॥५२॥
कृतश्च तेन मे स्वप्ने पुष्पपुण्यैरनुग्रहः।
उत्थितोऽस्मीह नूनं हि क्षेमोऽस्ति वसतोऽद्य मे ॥५३॥
इति बद्धासनमुत्थाय कृत्याह्निकमहं स्थितः।
आरुह्य यावदाहारकालेऽस्मिन् मध्यमे पुरे ॥५४॥
तावद्धिरण्मयेष्वग्रेपात्रेषूपनतेषु मे।
अपतत् स्वादुघृतक्षीरसालिमक्तादिभोजनम् ॥५५॥
चिन्तितं चिन्तितं चान्यन्मम भोज्यमुपागमत्।
तद्भुक्त्वा चाहमभवं देवात्तीवेह निर्वृतः ॥५६॥
ततो गृहीतैव मया स्थितिरस्मिन् पुरे प्रभो।
चिन्तितोपनमद्राज्यभोगेन प्रतिवासरम् ॥५७॥
भार्या परिच्छदो वा मे चिन्तितस्तु न तिष्ठति।
तेन यन्त्रमयोऽत्राप्यं जनः सर्वः कृतो मया ॥५८॥
इतीहागत्य तत्रापि दैवैकाकी करोम्यहम्।
राज्ञो लीलामितुः राज्यधरो नाम विधेर्वशात् ॥५९॥
तद्बन्निमितेऽमुष्मिन् भवन्तोऽद्य पुरे दिनम्।
विधाम्यन्तु यथाशक्ति परिचर्यापरे मयि ॥६०॥
इत्युक्त्या तत्पुरोद्यानं तेन राज्यधरेण सः।
[L22: नरवाहनदत्तोऽत्र नीयते स्म स गोमुखः ॥६१॥
तत्र वापीजलस्नातो वारिजार्चितधूर्जटिः।
तां मध्यमपुराहारभूमिं च प्रापितोऽभवत् ॥६२॥
बुभुजे तत्र चाहारान् ध्यातोपस्थापिताञ्छुभान्।
तेन राज्यधरेणाप्रस्थितेन स समन्वितः ॥६३॥
ततः केनाप्यदृष्टेन प्रमृष्टाहारभूमिकः।
अनु ताम्बूलभोगं स तस्थौ पीठासनः सुखम् ॥६४॥
अथ चिन्तामणिप्रख्यपुरमाहात्म्यविस्मितः।
भुक्ते राज्यधरे नक्तं स भेजे शयनोत्तमम् ॥६५॥