सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 223, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 223

१९४ कथासरित्सागर
रज्जुर्हि शिथिलीभूता यन्त्रे स्रस्ता च कीलिका।
तस्मादितोपसर्तव्यमधुनैवावयोर्द्वयोः ॥३६॥
चौराविति निगृह्णीयात् प्रातर्बुद्ध्वा नृपो हि नौ।
आवामत्र हि विख्यातौ मायायन्त्रविदावुभौ ॥३७॥
मातयन्त्रविमानं च तन्ममास्तीह मञ्जु यत्।
योजनाष्टशतीं याति सकृत् प्रहतकीलिकम् ॥३८॥
तेन दूरं व्रजावोऽद्य विदेशमपि सुखदम्।
पापे कर्मण्यवज्ञातं हितवाक्ये कुतः सुखम् ॥३९॥
यन्मया न कृतं वाक्यं तव दुष्कृतबुद्धिना।
तस्यैष पाकः प्रसृतो योऽद्य खमप्यपापिनि ॥४०॥
एवमुक्त्वा समारोहद्विमानं व्योमगामि तत्।
स मे प्राणधरो भ्राता तदैव सकुटुम्बकः ॥४१॥
अहमुक्तोऽपि तेनात्र नारोहं यन्निर्वृतेः।
ततस्तेन समुत्पत्य स प्रायात् क्वापि दूरतः ॥४२॥
गते प्राणधरे तस्मिन्नहमन्वेषनामनि।
प्रभाते माऽवि सम्भाव्य राजतो भयमेककः ॥४३॥
आरुह्य स्वकृतेऽन्यस्मिन् धाव्यन्त्रविमानके।
द्रुतं ततो गतोऽभूवं योजनानां शतद्वयम् ॥४४॥
प्रेरितेन पुनस्तेन विमानेन खगामिना।
ततोऽपि योजनशतद्वयमप्यदगामहम् ॥४५॥
ततः समुद्रेनैकट्याच्छास्त्रत्यक्तविमानकः।
पद्भ्यां व्रजन्निह प्राप्तः शून्यं पुरमिदं क्रमात् ॥४६॥
कौतुकाच्च प्रविष्टोऽहं वैभवं राजमन्दिरम्।
वस्त्रामरणशय्यादिराजोपकरणान्वितम् ॥४७॥
सायं सोद्यानवाप्याम्भः स्नातो भुक्त्वा फलान्यहम्।
राजशय्यागतो रात्रावेकाकी समचिन्तयम् ॥४८॥
निर्जनं किं करोमीह तत् प्रातर्यत्र कुत्रचित्।
व्रजामीतो गतं न हि भयं बाहुबलान्नृपात् ॥४९॥
इति सञ्चिन्त्य संसुप्तं नितान्तं दिव्यमप्यधृत्।
पुरुषो बर्हिणारूढः स्वप्ने मामवमभ्यधात् ॥५०॥