सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 221, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 221

१९२ कथासरित्सागर
तस्यां बाहुबलाख्योऽस्ति काञ्च्यां ख्यातो महीपतिः।
कोपे यद्वा कृता येन खलापि श्रीर्भुजार्जिता ॥२१॥
तस्य राष्ट्रे नृपस्यावां तक्षाणौ भ्रातरावुभौ।
मयप्रणीतदार्व्वादिमायायन्त्रविचक्षणौ ॥२२॥
ज्येष्ठ प्राणधरो नाम वेश्याव्यसनविप्लवः।
अह कनिष्ठस्तद्भक्तो नाम्ना राज्यधरः प्रभो ॥२३॥
तत भुक्त्वा धन पित्र्य मद्वभर्त्रा म्व च किञ्चन।
गुप्त मदर्पितमपि स्नेहाद्रक्षापितं मया ॥२४॥
ततोऽपि सोऽतिव्यसनो वेश्यार्थर्धिजिहीर्षया।
रज्जुयन्त्रवहं दारुमय हंसयुग व्यधात् ॥२५॥
सपक्षयुगल रज्जुघट्टनप्रेरित निशि।
राज्ञो बाहुबलस्यात्र कोशाद्यन्त्रप्रयोगतः ॥२६॥
गवाक्षेण प्रविश्यान्तश्छत्त्वा पटलक स्थितम्।
आदायाभरण तस्य मद्भ्रातुर्गृहमागमत् ॥२७॥
तच्च विक्रीर्य सोऽभुङ्क्त मज्ज्येष्ठः सह वेश्यया।
तथैवाहर्निश कोषममुष्णात् स च भूपतेः ॥२८॥
वार्यमाणोऽपि च मया नाकार्याद्व्यरमत्ततः।
को हि मार्गममार्ग वा व्यसनान्धो निरीक्षते ॥२९॥
तथा च मुष्यमानेऽपि रात्रिष्वञ्चितार्गले।
निर्मूषके राजगञ्जे दिनानि कतिचित् भयात् ॥३०॥
बिभिन्वन् प्रत्यह तूष्णीं परितप्तोऽधिकाधिकम्।
तद्भाण्डागारिको गत्वा स्फुट राजे न्यवेदयत् ॥३१॥
राजापि च तदाग्यांश्च रक्षकान् जाग्रतो निशि।
कोषान्त स्थापयामास तत्र तत्त्वमवेक्षितुम् ॥३२॥
ते निशीथे प्रविष्टौ तौ गवाक्षेणात्र रक्षकाः।
मद्भ्रातृयन्त्रहंसौ द्वावपश्यन् रज्जुघट्टितौ ॥३३॥
यन्त्रयुक्तिपरिभ्रान्तौ चञ्चूपात्तविभूषणौ।
छिन्नरज्जू जगृहुश्च राज्ञे दर्शयितु प्रगे ॥३४॥
तत्काल च स मद्भ्राता ज्येष्ठोऽब्रवीत् ससम्भ्रम ।
भ्रातर्गृहीतौ हंसौ द्वौ मदीयो गञ्जरक्षिभिः ॥३५॥