सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 211, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 211

१८९ कथासरित्सागर
मनोरथमिवारुह्य विमानं सिद्धमाशुमत् ।
आजगामोत्सुकोऽनिच्छासेनेन शैलपुरं स तत् ॥१७६॥
तत्र दृष्ट्वोत्थितं सद्यो लब्धसंज्ञं समभ्रजम्।
जग्राह पादयोः साधु कण्ठे सोऽप्येनमग्रहीत् ॥१७७॥
त्वया नौ रक्षितो मर्त्येयमे ते पादयोस्ततः।
निपत्य भ्रातृजाये तमनिच्छासेनमूचतुः ॥१७८॥
भयेन्दीवरसेनाय पृच्छते सोऽब्रवीत् सत्।
॥१७९॥
।
नाक्रुप्यत्सङ्गवष्ट्राये भ्रातर्येस्मिंस्तुताव च ॥१८० ॥
क्षुभाव चेतस्य मुक्तात्पितरौ दर्शनोत्सुकौ।
मायामपरमात्रा च कृतां तौ तद्वियोगदाम् ॥१८१॥
ततो मात्रापितं खड्गं गृहीत्वा तत्प्रभावतः ।
ध्यातोपनतमारुह्य विमानं शुमहच्च सः ॥१८२॥
सहेममन्दिरो भार्याद्वयेन सह सानुजः ।
तामिन्दीवरसेनः स्वां पुरीमागादिरावतीम् ॥१८३॥
तत्रावतीर्य नभसो विस्मयालोकितो जनैः ।
राजवेश्म पितुः पार्श्वं विवेश सपरिच्छदः ॥१८४॥
तथाभूतञ्च पितरं तं दृष्ट्वा मातरं च सः।
पपात पादयोर्बाष्पधाराधौतमुखस्तयोः ॥१८५॥
तौ च तं सहसा दृष्ट्वा पुत्रमाश्लिष्य सानुजम्।
अमृतेनेव सिक्ताङ्गौ तापनिर्वाणमीयतुः ॥१८६॥
दिव्यरूपे च तद्भार्ये कृतपादाभिवन्दने।
स्नुषे उभे ते पश्यन्तौ हृष्टावभिननन्दतुः ॥१८७॥
कथाप्रसङ्गाद् बुद्ध्वा च तस्य ते पूर्वनिर्मिते ।
दिव्यशास्त्रमिते भार्ये मयतुस्तौ परां मुदम् ॥१८८॥
विमानगतिशीर्णेर्णमन्दिरानयनादिना ।
प्रभावेण सुतस्यास्य विस्मयं नन्रदतुः ॥१८९॥
ततस्ताभ्यां स सहितः पितृभ्यां सपरिग्रहः ।
आस्तेन्दीवरसेनोऽत्र प्रदत्तप्रमदोत्सवः ॥१९०॥