कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 209, कुल 1079 में से
संदर्भ में पढ़ें१८० कथासरित्सागर
ततोज्नुनीताप्येतेन नित्यमेवाबिसङ्ख्यया ।
ईर्ष्यया मोहितात्यर्थमहमेवमचिन्तयम् ॥१६१॥
अहो अगणयित्वैव मामयं भजतेऽपराम् ।
आमेज्स्य खड्गमाहात्म्यकृतो दर्पोऽयमीदृशः ॥१६२॥
तदस्य गोपयाम्येनमिति सञ्चिन्त्य मूढया।
एतत्खङ्गो निधिः क्षिप्तः सुप्तेऽस्मिन्दहने मया ॥१६३॥
कलङ्कितश्च खड्गोऽसो गतश्चैव दशामिमाम् ।
अनुतप्तास्मि आक्रुष्टा ततो मदनदंष्ट्रया ॥१६४॥
अथैतस्यां च मयि च द्वयोः शोकाग्ध्यचेतसोः ।
मरणाध्यवसायिन्योरागतस्त्वमिहाधुना ॥१६५॥
तद्गृहाण त्वमेवैतत्खड्गं निस्त्रिंशकर्मिकाम् ।
अव्यक्तजातिभ्रंशां मामेतेनैव निपातय ॥१६६॥
इत्युक्तः स तयानिच्छासेनोऽथ भ्रातृजायया ।
सापापवध्यां मत्वा तां छेत्तुमैच्छन्निजं शिरः ॥१६७॥
मैवं कार्षीन्मृतो नायं राजपुत्र तवाग्रजः ।
खड्गप्रमादकोपेन देव्या स्वेयं विमोहितः ॥१६८॥
अस्या च खड्गदंष्ट्रायां मन्तव्या नापराधिता ।
यतः शापावतीर्णानामेतद्वस्तद्विजृम्भितम् ॥१६९॥
एते चास्य तव भ्रातुः पूर्वभार्ये उभे अपि ।
तत्प्रसाद्य तामेव देवीमभिमतप्तये ॥१७०॥
इति तत्कालमुद्भूतामन्तरिक्षात्सरस्वतीम् ।
श्रुत्वा निवृत्तेऽनिच्छासेनः स मरणोद्यमात् ॥१७१॥
आरुह्यैव विमानं तद्गृहीत्वाग्निकसङ्गितम् ।
सङ्गं तं विन्ध्यवासिन्याः पादमूलं जगाम सः ॥१७२॥
तत्र मूर्धोपहारेण तोषयिष्यन्नुपोषितः ।
दवीं तामुद्धतामेठां गगनादशृणोद् गिरम् ॥१७३॥
मा पुत्र साहसं कार्षीर्गच्छ जीवतु तेऽग्रजः ।
जायतां निर्मलः खड्गो भक्त्या तुष्टा ह्यहं तव ॥१७४॥
एतद्दिव्यं वचः श्रुत्वा तत्क्षणं निजभक्तृताम् ।
प्राप्तं दृष्ट्वा करे खड्गं कृत्वा तस्याः प्रदक्षिणम् ॥१७५॥