सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 203, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 203

१७४ कथासरित्सागर
तस्थौ च वार्तामन्विष्यन् सततं पुत्रयोस्तयोः ।
तन्मात्रा सह दुःखार्तो धर्मसक्तोऽम्बिकां स्मरन् ॥११६॥
तावच्च राजपुत्रस्य तपसा सानुजस्य सा ।
तस्येन्दीवरसेनस्य तुष्टाऽभूद्विन्ध्यवासिनी ॥११७॥
दत्त्वा च खड्गं स्वप्ने सा साक्षादेवं तमादिशत् ।
अस्य प्रभावात् खड्गस्य शत्रूञ्जय्यसि दुर्जयान् ॥११८॥
चिन्तयिष्यसि यत्किञ्चित् तच्च सम्पत्स्यते तव ।
द्वावप्येतेन च युवामिष्टसिद्धिमवाप्स्यथः ॥११९॥
इत्युक्त्वाऽन्तर्हितायां च देव्यां तस्यां प्रबुध्य सः ।
तत्रेन्दीवरसेनस्तं हस्तस्थं खड्गमैक्षत ॥१२०॥
अथ खड्गेन तत्स्वप्नवर्णनेन च सोऽनुजम् ।
आश्वास्य चक्रे तद्युक्तः प्रातर्वन्येन पारणम् ॥१२१॥
ततः प्रणम्य देवीं तां तत्प्रसादबृहद्बलः ।
हृष्टस्तत्खड्गहस्तश्च समं भ्रात्रा ययौ ततः ॥१२२॥
गत्वा च दूरं स प्राप्वैकं पुरवरं महत् ।
कुर्वद्भि र्मेरुशिखरभ्रान्तिं हेममयैर्गृहैः ॥१२३॥
तत्र रौद्रं ददर्शैकं प्रतोलीद्वारि राक्षसम् ।
पप्रच्छ तं च वीरोऽस्य पुरस्याख्यां पतिं च सः ॥१२४॥
इदं शैलपुरं नाम नगरं राक्षसाधिपः ।
अध्यास्ते यमदंष्ट्राख्यः स्वामी नः क्षत्रुमर्दनः ॥१२५॥
इत्युक्ते रक्षसा तेन यमदंष्ट्रजिघांसया ।
तत्रेन्दीवरसेनोऽथ स प्रवेष्टुं प्रवृत्तवान् ॥१२६॥
निक्षिपन्तं च तं ज्ञात्वा राक्षसं स महाभुजः ।
एकखड्गप्रहारेण शिरश्छित्त्वा न्यपातयत् ॥१२७॥
तं हत्वा राजभवनं प्रविश्यान्तर्ददर्श सः ।
शूरः सिंहासनस्थं तं यमदंष्ट्रं निशाचरम् ॥१२८॥
वष्ट्राम्भोरुहमंसे वामपार्श्वस्थितवराङ्गनम् ।
आधितेतरपार्श्वं च कुमार्या दिव्यरूपया ॥१२९॥
दृष्ट्वा च सोऽम्बिकादत्तखड्गहस्तो रणाय तम् ।
माहूतवान् स चोत्तस्थौ खड्गमाकृष्य राक्षसः ॥१३ ॥