कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 201, कुल 1079 में से
संदर्भ में पढ़ें१७४ कथासरित्सागर
तस्थौ च वार्तामन्विच्छन् सततं पुत्रयोस्तयोः ।
तन्मात्रा सह दुःखार्त्तो धर्मसक्तोऽम्बिकां स्मरन् ॥११६॥
तावच्च राजपुत्रस्य तपसा सानुजस्य सा।
घस्येन्दीवरसेनस्य तुष्टाऽभूद्विन्ध्यवासिनी ॥११७॥
दत्त्वा च खड्गं स्वप्ने सा साक्षादेव समादिशत् ।
अस्य प्रभावात् खड्गस्य शत्रूञ्जेष्यसि दुर्जयान् ॥११८॥
चिन्तयिष्यसि यत्किञ्चित् तच्च सम्पत्स्यते तव ।
द्वावप्येतेन च युवामिष्टसिद्धिंमवाप्स्यथः ॥११९॥
इत्युक्त्वान्तर्हितायां च देव्यां तस्यां प्रबुध्य सः।
तत्रेन्दीवरसेनस्तं हस्तस्थं खड्गमक्षैक्षत ॥१२० ॥
अथ खड्गेन तत्स्वप्नवर्णनेन च सोऽनुजम् ।
आश्वास्य चक्रे तद्युक्तं प्रातर्भेनेन पारणम् ॥१२१॥
ततः प्रणम्य देवीं तां रात्प्रसादहृतक्लमः ।
हृष्टस्तत्सङ्गहस्तश्च समं मात्रा ययौ ततः ॥१२२॥
गत्वा च दूरं स प्राप्वेकं पुरवरं महत् ।
कुर्वाणं मेरुशिखरभ्रान्तिं हममयेगृहैः ॥१२३॥
तत्र रौद्रं ददर्शैकं प्रतोलीद्वारि राक्षसम्।
पप्रच्छ तं च धीरोऽस्य पुरस्यास्यां पतिं च सः ॥१२४॥
इदं धौमपुरं नाम नगरं राक्षसाधिप ।
अभ्यास्ते यमदंष्ट्राख्यः स्वामी नः शत्रुसूदनः ॥१२५॥
इत्युक्ते रक्षसा तेन यमदंष्ट्रजिघांसया।
तत्रेन्दीवरसेनोऽथ स प्रवेष्टुं प्रवृत्तवान् ॥१२६॥
निरुन्धन्तं च तं द्वाःस्थं राक्षसं स महाभुजः ।
एकखड्गप्रहारेण शिरश्छित्त्वा व्यपातयत् ॥१२७॥
तं हत्वा राजभवनं प्रविश्यान्तर्ददर्श सः।
शूरं सिंहासनस्थं तं यमदंष्ट्रं निशाचरम् ॥१२८॥
दृष्ट्वापोरमुगं वामपार्श्वस्थितवराङ्गनम् ।
आश्रितेतरपार्श्वं च कुमार्थ्या दिव्यस्यया ॥१२९॥
दृष्ट्वा च सोऽम्बिकान्तत्तद्वहहस्तो रणाय तम् ।
माहूतवान् स धात्तग्यो गद्दगमाङ्ख्य गद्दगः ॥१३०॥