कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 197, कुल 1079 में से
संदर्भ में पढ़ें१७० कथासरित्सागर
ततोऽप्रतिहतौ वीरौ मिलितानेकपाथिवौ ।
जेतुं सिद्धप्रतापौ तौ जग्मतुर्दक्षिणां दिशम् ॥८६॥
तां च वार्तां तयोः श्रुत्वा पितरौ तौ ननन्दतुः ।
प्रज्वलापरमाता तु सान्तर्विद्वेषवह्निना ॥८७॥
एताभ्यां भुजदर्पेण पृथ्वीं जित्वा निहत्य माम् ।
राज्यं मदीयं स्वीकृतुं मत्पुत्राभ्यां विचिन्तितम् ॥८८॥
तद्यद्य मयि भक्ताश्चेदेतावत्र मत्सुतौ ।
अविचार्यैव युष्माभिनिहन्तव्यावुभावपि ॥८९॥
इति तत्कटकस्थेभ्यः सामन्तेभ्यस्ततः शठा ।
राजादेशं तथा रात्री तन्नाम्नेवाभिलिख्य सा ॥९०॥
सन्धिविग्रहकायस्थेनाहृतेनार्थसञ्चयैः ।
उपांशु काष्ठालङ्कारा व्यसृजल्लेखहारकम् ॥९१॥
स च गुप्तं तयोर्गत्वा कटकं राजपुत्रयोः ।
सामन्तेभ्यो ददौ तेभ्यस्तांल्लेखांल्लेखहारकः ॥९२॥
ते वाचयित्वा तान् सर्वे राजनीतिं सुकर्कशाम् ।
विचिन्त्य तां प्रभोराज्ञामनुलङ्घयामवेक्ष्य च ॥९३॥
रात्रौ मिलित्वा सम्मन्त्र्य निहन्तुं तौ नृपात्मजौ ।
विवक्षां निश्चयं चक्रुस्तद्गुणावर्जिता अपि ॥९४॥
तच्च बुद्ध्वैव तन्मध्यादेकस्य सुहृदो मुखात् ।
तौ स मातामहः मन्त्री राजपुत्रौ सह स्थितः ॥९५॥
बोधयित्वा यथातत्त्वमारोप्य वरवाजिनोः ।
अपसारितवान् गुप्तं तत्कालं कटकात्ततः ॥९६॥
तेनापसारितौ तौ च व्रजन्तौ निशि तद्रुतौ ।
विन्ध्याटवीं विविशतुर्मार्गाज्ञानान्नृपात्मजौ ॥९७॥
तत्र रात्रावतीतायां प्रभात् प्रत्यम्यतोस्तयोः ।
मध्याह्ने वितृषाशान्तौ हयी पञ्चत्वमापतुः ॥९८॥
स च मातामहो वृद्धः शुशुचाणुकवालुकः ।
व्यपद्यतातपक्लान्तो नान्तयोः पश्यतस्तयोः ॥९९॥
अनागसौ कथं पित्रा गमितौ स्वो दशांमिमाम् ।
गतामा कुर्वता शौ तौ दुष्टामपरमातरम् ॥१००॥