कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 195, कुल 1079 में से
संदर्भ में पढ़ें१६८ कथासरित्सागर
राजापि स तदुत्पत्तिफलितस्वमनोरथः ।
नन्दति स्म परित्यागसेनः कृतमहोत्सवः ॥७१॥
तयोश्च सुतयोर्ज्येष्ठमिन्दीवरनिभेक्षणम् ।
नाम्नेन्दीवरसेनं स नृपश्चक्रेऽमृताकृतिम् ॥७२॥
विषमेण कनीयांसमनिच्छासेनमाख्यया ।
तज्जनन्यै यतो भुक्तं फलं तत्तदनिच्छया ॥७३॥
अथात्र तस्य राज्ञी सा द्वितीया भूमिपस्य तत् ।
आलोक्य काष्र्ण्यालङ्कारा सामर्षं समचिन्तयत् ॥७४॥
अहो अहं सुतप्राप्तौ सपत्न्या वञ्चितैतया ।
तत्तस्या मयाऽवश्यं कार्या मन्युप्रतिक्रिया ॥७५॥
विनाश्यौ तनयावेतावेतदीयो स्वयुक्तितः ।
इति सञ्चिन्त्य सा तस्थौ तदुपायं विचिन्वती ॥७६॥
यथा यथा च तौ तत्र व्यवृधाते नृपात्मजौ ।
तथा तथास्या ववृधे हृदये वैरपादपः ॥७७॥
क्रमेण यौवनस्थौ च तौ विज्ञापयतः स्म तम् ।
राजपुत्रौ स्वपितरं जिगीषू भुजशालिनौ ॥७८॥
अस्त्रेषु शिक्षितौ तावद्यावां सम्प्राप्तयौवनौ ।
सद्भुजान् विफलानेतान् विभ्रतौ कथमस्वाहे ॥७९॥
क्षत्रियस्याजिगीषोस्य धिग्बाहुं धिक् च यौवनम् ।
अतोऽनुजानीह्यधुना तात दिग्विजय्याय नौ ॥८०॥
इति सून्वोर्वचः श्रुत्वा राजा हृष्टोऽनुमन्य सः ।
यात्रारम्भं परित्यागसेनो व्यदधे तयोः ॥८१॥
यच्चैतन्महद् जातं युवयोः स्यात्तदम्बिका ।
स्मर्तव्याऽर्तिहरा देवी तया दत्तौ हि मे युवाम् ॥८२॥
इत्युक्त्वा च स तौ राजा यात्रायै प्राहिणोत्सुतौ ।
युक्तौ सैन्यै रथामात्यैर्जनन्यै कृतमङ्गलौ ॥८३॥
निजं मन्त्रिप्रधानं च पश्चात्तातस्तयोस्तदा ।
प्रणामाहार्यं व्यसृजद्धाम्ना प्रथमसङ्गतम् ॥८४॥
अथ तौ राजपुत्रौ द्वौ सबलौ भ्रातरौ व्रजन्न् ।
गत्वा प्राचीं दिशं पूर्वं जिग्यतुः प्राज्यविक्रमौ ॥८५॥