सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 189, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 189

१६४ कथासरित्सागर
नक्तं च तत्र संयम्य दत्तघासौ हयावुभौ ।
मन्त्रिद्वितीयो वासार्थमारुरोह महातरुम् ॥४२॥
तस्योरुशाखासविष्टो वित्रस्तहयहर्षिते ।
प्रबुद्धः सोऽन्तराधस्तादपश्यत् सिंहमागतम् ॥४३॥
दृष्ट्वा त्रातितितीर्षुं तमवतार्ये गोमुखोऽब्रवीत् ।
अहो देहानपेक्षं संभ्रमेणैव चेष्टसे ॥४४॥
शरीरमूला हि नृपा मन्त्रमूला च राजता ।
युयुत्ससे तत्तिर्यङ्मर्मखण्डदंष्ट्रायुधैः कथम् ॥४५॥
एतद्रक्षार्थमेवावामिहारूढौ हि सम्प्रति ।
इति गोमुखवागुढो युवराजः स सल्लम्रम् ॥४६॥
सिंहं तं तुरगं घ्नन्तं दृष्ट्वा छुरिकया द्रुतम् ।
आजघान नरो पृष्ठोत् क्षिपत्या स निमग्नया ॥४७॥
स तथा तेन विद्धोऽपि तं हत्वैव हयं बली ।
सिंहो व्यापादयामास द्वितीयमपि वाजिनम् ॥४८॥
ततो वत्सेश्वरसुतः खड्गमादाय गोमुखात् ।
तेन क्षिप्तेन मध्ये तं सिंहं द्वेधा चकार सः ॥४९॥
अवतीर्य च सगृह्य कृपाणीं सिंहदहृतः ।
खड्गं चारुह्य सोऽत्रैव वृक्षे रात्रिमथास ताम् ॥५०॥
प्रातस्ततोऽवतीर्णश्च प्रतस्थे गोमुखान्वितः ।
मरणाहनदत्तांस्तस्तां स कर्पूरिकां प्रति ॥५१॥
अथ पद्भ्यां प्रयान्तं तं सिंहेन हतवाहनम् ।
दृष्ट्वा विनोदयन्नेवमुवाच पथि गोमुखः ॥५२॥
इन्दीवरसेनानिच्छासेनयोः कथा
येव प्रासङ्गिकामेतां कथामान्यामि ते शृणु ।
अस्तीहैरावती नाम नगरी विजितालका ॥५३॥
तस्यामभूत् परित्यागसेनो नाम महीपतिः ।
बभूवतुश्च तस्य द्वे देव्यौ प्राणसमे प्रिये ॥५४॥
एका स्वर्मश्रिततया नाम्नोऽधिकसङ्गुमा ।
नाम्ना तु काव्यालङ्कारा द्वितीया राजलक्षण ॥५५॥