सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 173, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 173

१४८ कथासरित्सागर
तदेतद्दर्शितं तुभ्यं युक्त्या प्रत्यक्षतो मया ।
भवत्क्षिप्तोऽस्यसद्भाव साभिज्ञानं च वर्णितम् ॥१०७॥
तस्मात्तुभ्यं मया राज्यमदामीति मम त्वया ।
अहङ्कारो न कर्त्तव्यः स्थाप्यं चेतो न दुःस्थितम् ॥१०८॥
विना हि प्राक्तनं कर्म न दाता कोऽपि कस्यचित् ।
आगर्भान्जन्त्वुरश्नाति पूर्वकर्मतरो फलम् ॥१०९॥
इत्युक्तः स भिषक् तेन राज्ञा दृष्ट्वा तथैव तत् ।
असन्तोषं पुनर्नैव तत्सेवामुत्स्रितोऽभ्यगात् ॥११०॥
सोऽपि राजाजरो जातिस्मरस्तं भिषजं ततः ।
सम्मान्यार्थप्रदानेन यथोचितमुदारधीः ॥१११॥
अन्तःपुरे सुहृद्भिेश्च साकं नयजितां महीम् ।
भुञ्जानः सुकृतप्राप्तां सुखमास्तापकण्टकाम् ॥११२॥
एवं भवति लोकेऽस्मिन् दैव सर्वस्वं सर्वदा ।
प्राक्कर्मोपार्जितं जन्तोः सर्वमेव शुभाशुभम् ॥११३॥
तस्मात्त्वमपि न स्वामी मन्ये जन्मान्तराजितः ।
सत्त्वं येष्वेवमस्माकं प्रसन्नाऽस्त्यन्यथा कथम् ॥११४॥
इत्यपूर्व्वरमणीयविचित्रां कान्तया सह तपन्तकवक्त्रात् ।
संनिशम्य स कथामुदतिष्ठत् स्नातुमत्र नरवाहनदत्तः ॥११५॥
कृतस्नानो गत्वा निकटमथ वत्सेशन्नृपतेः
पितुर्मुञ्चन् मातुर्मुहुरमृतवर्षं नयनयोः ।
कृताहारस्ताभ्यां सह सदमितो मन्त्रिसहितः
सुखैरापागाद्यैर्दिनमगमयेतां च रजनीम् ॥११६॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके षष्ठस्तरङ्गः ।

सप्तमस्तरङ्गः
नरवाहनदत्तकथा (पूर्वानुवृत्ता)
ततः स रत्नप्रभया समं तद्वासवेश्मनि ।
स्थितोऽन्येद्युः कथाः कुर्व्वंस्तास्ताः स सचिवैः सह ॥१॥
नरवाहनदत्तोऽथ मन्दिरप्राङ्गणे बहिः ।
अकस्मात्पुष्टयस्यैष शुश्रावाश्चन्वितध्वनिम् ॥२॥