कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 171, कुल 1079 में से
संदर्भ में पढ़ें१४६ कथासरित्सागर
मघामिवृष्टात्तस्माच्च वटशाखावलम्बिनः।
मानुपास्थिकरङ्काद्ये न्यपतस्तोयबिन्दवः ॥९२॥
नद्यास्तीर्थजले तस्यास्त्वभ्यस्तानि ददर्श सः।
जायमानानि पद्मानि सौवर्णानि क्षणाद् भिषक ॥९३॥
अहो किमिदमाश्चर्यं क पृच्छाम्यजन वन।
यदि वा वद कः सर्ग बह्वाश्चर्यमय विधेः ॥९४॥
दृष्टस्तावन्मया सोऽथ कनकाम्भोरुहाकरः।
तदेतत् प्रक्षिपाम्यत्र तीर्थे नरकलेवरम् ॥९५॥
धर्मोऽस्तु यत्पुष्ठे व जायन्तामम्बुजानि वा।
इत्यालोच्य स वृक्षाग्रात् ततं कङ्कालमक्षिपत् ॥९६॥
नीत्वा च तद्दिनं तत्र सिद्धकार्योऽपरेऽहनि।
प्रत्यावत्तिष्ट स ततो भिषग्देशं निजं प्रति ॥९७॥
दिनै कतिपयै प्राप तद्विलासपुरं च सः।
तस्याज्रस्य निकटं राज्ञोऽम्बुकुशभूसुरः ॥९८॥
द्वाःस्थेनावेदितो यावत्प्रविश्य धरणीनतः।
स पृष्टकुशलो राज्ञा वृत्तान्तं वक्ति स भिषक ॥९९॥
तावत्स विजनं कृत्वा राजा तं स्वयमभ्यधात्।
दृष्टं हुमाम्बुजोत्पत्तिस्थानं तद्वभवता सखे ॥१००॥
तत्क्षेत्रमुत्तमं चैव तत्र दृष्टस्त्वया च सः।
करङ्को वटवृक्षे तां प्राक्तनीं विद्धि मे तनुम् ॥१०१॥
तदूर्ध्वपादेन मया लम्बमानेन कुर्वता।
तपस्तत्र पुरा त्यक्तमुपशोध्य कलेवरम् ॥१०२॥
तपसस्तस्य माहात्म्यात्करङ्कात् प्रच्युतैस्ततः।
मघाम्बुभिस्ते जायन्ते पद्मास्तत्र हिरण्मयाः ॥१०३॥
स करङ्कश्च यत्क्षिप्तस्तीर्थे तत्र मम त्वया।
युक्तं तद्विहितं त्वं हि मित्रं मे पूर्वजन्मनि ॥१०४॥
एष भेषजचन्द्रश्च तथाऽसौ पद्मदर्शनः।
एतावपि च तज्जन्मसङ्गतौ सुहृदौ मम ॥१०५॥
यत्तस्य तपसो मित्र प्राक्तनस्य प्रभावतः।
जातिस्मरत्वं ज्ञानं च राज्यं चोपगतं मम ॥१०६॥