कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 17, कुल 1079 में से
संदर्भ में पढ़ें१ कथासरित्सागर
एवं दिनेषु गच्छत्सु तस्योद्वाढवशात्किल ।
अपुत्रताकृता राज्ञश्चिन्ता जात्वपद्यत ॥२७॥
तयातिषुर्मनस्कं च दृष्ट्वा पप्रच्छ स प्रिया ।
अलङ्कारप्रभा देवी दौर्मनस्यस्य कारणम् ॥२८॥
सत स राजावादीतां सर्वसम्पत्तिरस्ति मे ।
एक तु पुत्रो नास्तीति दुख मां देवि बाधते ॥२९॥
या मया प्रागपुत्रस्य पुंस सत्त्ववत कथा।
श्रुता सरस्मरणोद्भाताश्चिन्तेषा चोद्गता मम ॥३०॥
कीदृशी सा कथा देवेत्युक्तो देव्या तया च स ।
राजा तस्यै कथामेवं संक्षेपातामवर्णयत् ॥३१॥
अथ सत्त्वशीलस्य कथा
नगरे चित्रकूटाख्ये ब्राह्मणार्श्वनतत्पर ।
बभूव ब्राह्मणवरो नाम्नान्यर्थो महीपति ॥३२॥
तस्यासीत्सत्त्वशीलाख्यो जयी युद्धैकसेवक ।
मासे मासे च लेभे स तस्मात् स्वर्णशत नृपात् ॥३३॥
पर्याप्तं तच्च नैवाभूत्यागिनस्तस्य काञ्चनम् ।
अपुत्रत्वाच्च दानैकविनोदासक्तचेतस ॥३४॥
पुत्रो विनोदहेतुर्मे दत्तस्तावन येवसा ।
दत्त च दानम्यसम तदप्यर्थविनाकृतम् ॥३५॥
वरं जीनेस्य शूकस्य हरोर्जे मोपलस्य वा।
न संसारे दरिद्रस्य त्यागैकव्यसनस्य च ॥३६॥
इति सञ्चिन्तयन्नित्यं सत्त्वशील स जातुचित् ।
उद्याने सञ्चरन् प्राप निधिं दैवात्कदाचन ॥३७॥
सभृत्यश्च तमादाय भूरिकाञ्चनभास्वरम्।
महापरत्नरुचिरं निनाय प्रक्षनं गृहम् ॥३८॥
तत स भोगा भुञ्जाना ब्राह्मणेभ्या ददद्वसु ।
भृत्यभ्यश्च सुहृद्भ्यश्च बाधवास्तेत्र यात्रिक ॥३९॥
१