कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 169, कुल 1079 में से
संदर्भ में पढ़ें१४८ | कथासरित्सागर
तदेतद्दर्शितं तुभ्यं युक्त्या प्रत्यक्षतो मया।
भवत्क्षिप्तोऽस्मि संसक्तात् साभिज्ञानं च वर्णितम् ॥१०७॥
तस्मात्तुभ्यं मया राज्यमदायीति मम त्वया।
अहङ्कारो न कर्त्तव्यः स्थाप्यं चेतो न कुत्सितम् ॥१०८॥
विना हि प्राक्तनं कर्म न दाता कोऽपि कस्यचित् ।
आगर्भाज्जन्मसुख्याति पूर्वकर्मतरोः फलम् ॥१०९॥
इत्युक्तः स भिषक तेन राज्ञा दृष्ट्वा तथैव तत् ।
ससन्तोषः पुनर्नैव तत्सेवासुस्थितोऽप्यगात् ॥११०॥
सोऽपि राजाऽथ नातिस्मरस्तं भिषजं ततः ।
सम्मान्यार्थप्रदानेन यथोचितमुदारधीः ॥१११॥
अन्तःपुरैः सुहृद्भिश्च साकं नयजितां महीम्।
भुञ्जानः सुकृतप्राप्तां सुखमास्तामकण्टकाम् ॥११२॥
एवं भवति लोकेऽस्मिन् द्वैधं सर्वस्य सर्वदा।
प्राक्कर्मोपार्जितं जन्तोः सर्वमेव शुभाशुभम् ॥११३॥
तस्मात्त्वमपि न स्वामी मय्येवामान्तराजितः।
संसृज्यत्वेवमस्माकं प्रसन्नोऽस्यन्यथा कथम् ॥११४॥
इत्यपूर्वरमणीयविचित्रां कान्तया सह हसन्कथञ्चित्।
संनिशम्य स कथामुपतिष्ठत् स्नातुमत्र नरवाहनदत्तः ॥११५॥
कृतस्नानो गत्वा निकटमथ वत्सेशनृपतेः
पितुर्मुञ्चन् मातुर्मुहुरमृतवर्षं नयनयोः ।
कृताहारस्ताभ्यां सह सममितो मन्त्रिसहितः
सुखैरापानाद्यैर्दिनमगमयेत्तां च रजनीम् ॥११६॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके षष्ठस्तरङ्गः ।
सप्तमस्तरङ्गः
नरवाहनदत्तकथा (पूर्वानुवृत्ता)
ततश्च रत्नप्रभया समं सद्भावबन्द्धनि ।
स्थितोऽन्येषु कथां कुर्वन्तास्ताः स सचिवैः सह ॥१॥
नरवाहनदत्तोऽथ मन्दिरप्राङ्गणे बहिः ।
अपश्यत्तुङ्गमभ्रंलेहं शुकायातत्विपञ्जरम् ॥२॥