सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 167, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 167

१४४ कथासरित्सागर
तद्विस्मृतं यदा राजा भवानिह मया कृतः।
तच्छ्रुत्वा स राजा समजरो वैद्यमभ्यधात् ॥७७॥
अहो मूर्खोऽसि कः कस्य कर्ता दातापि वा पुमान्।
प्राक्तनं कर्म हि सर्वं करोति च ददाति च ॥७८॥
अतस्त्वं मा कृथा दर्पं तपःसिद्धमिदं हि मे।
एतच्च दर्शयिष्यामि प्रत्यक्षमचिरेण ते ॥७९॥
इत्युक्तस्तेन स ग्रस्त इव वैद्यो व्यचिन्तयत्।
अहो किमप्यधृष्टोऽयं धीरो ज्ञानीव भाषते ॥८०॥
यद्वहस्त्यान्तरङ्गत्वं स्वामिसंबन्धनं परम्।
तदपि क्षमते नास्मिन्ननुवर्त्यस्तथैव मे ॥८१॥
पश्यामि तावत् किमय साक्षान्म दर्शयिष्यति।
इत्यालोच्य तथैत्येव भिषक् तूष्णीं बभूव सः ॥८२॥
अन्येद्युश्चामरो राजा परिभ्रान्तुं स निर्ययौ।
क्रीडस्तरुणचन्द्राख्यं सेव्यमानः सुहृत्सखः ॥८३॥
भ्राम्यन् प्राप्तो नदीतीरं यस्या मध्ये ददर्श सः।
प्रवाहे वहदायातं सौवर्णं पद्मपञ्चकम् ॥८४॥
वानाययच्च भृत्यैस्तद् गृहीत्वा प्रविलोक्य च।
वैद्यं तरुणचन्द्रं स जगाद निकटस्थितम् ॥८५॥
नदीतीरेण गच्छ त्वमुपरिष्टादितोऽमुना।
उत्पत्तिस्थानमेतेषां पङ्कजानां गवेषय ॥८६॥
तच्च दृष्ट्वा त्वमागच्छ सुमहत्कौतुकं हि मे।
अद्भुतेष्वेपु पद्मेशु त्वं च दक्षः सुहृन्मम ॥८७॥
इत्युक्त्वा प्रहितस्तेन राज्ञा स विवशो भिषक्।
यथादिष्टेन मार्गेण तथेति प्रययौ सतः ॥८८॥
राजाप्यासीत् स्वपुरं स च गच्छन् भिषक क्रमात्।
प्रापदायतनं शैवं नद्यास्तस्यास्तटस्थितम् ॥८९॥
तदग्रे तत्सरित्तीर्थे सट वनमहातरुम्।
अपश्यत्स्यन्दमानं च तस्मिन् नरवरद्वपुम् ॥९०॥
तत्र श्रान्तः कृतस्नानो देवमभ्यर्च्य तत्र सः।
यावत्तिष्ठति मधोऽत्र तावदागत्य पृच्छताम् ॥९१॥