सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 163, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 163

१४० कथासरित्सागर
भद्र भवत्स्वमस्मासु कुशलश्छेति पृच्छ्यसे।
अप्यस्ति काचिद्युक्तिः सा ययेयं वार्यते जरा ॥४७॥
तच्छ्रुत्वैव कलामात्रसारो वाञ्छन् स पूर्णताम्।
वक्रस्तरुणचन्द्रोऽत सत्यनामा व्यचिन्तयत् ॥४८॥
मूर्खोऽयं नृपतिर्मोघ्यो मया वेत्स्यामि च क्रमात्।
इति सञ्चिन्त्य स भिषक् तमेवमवदन्नृपम् ॥४९॥
एकस्त्वं गूढे मासानष्टौ यदिदमोषधम्।
उपयुङ्क्षे ततो दव जरामपनयामि ते ॥५०॥
एतच्छ्रुत्वैव स नृपस्तद्भूगृहमकारयत्।
क्षमन्ते न विचारं हि मूर्खा विषयलोलुपाः ॥५१॥
राजन् सत्त्वेन पूर्वेषां तपसा च दमेन च।
रसायनानि सिद्धानि प्रभावेण युगस्य च ॥५२॥
अद्यत्वे च श्रुतान्येव रसान्येतानि भूपते।
सामर्थ्याभावात् कुर्वन्ति यत्प्रत्युत विपर्ययम् ॥५३॥
तन्न युक्तमिदं धूर्ताः क्रीडन्त्येव हि बालिशैः।
किं श्व समतिक्रान्तमागच्छति पुनर्वयः ॥५४॥
इत्यादि मन्त्रिणां वाक्यं न लेभे तस्य चान्तरम्।
आवृते हृदये राज्ञो गाढया मोगतृष्णया ॥५५॥
विवेश च गिरा तस्य भिषजस्तत् स भूगृहम्।
एकाकी वारिताशेषराजोचितपरिच्छदः ॥५६॥
एको वैद्यः स्वभृत्येन सहैकेनव तस्य सः।
तत्रौषधादिचर्यायां बभूव परिचारकः ॥५७॥
तस्थौ च तत्र स नृपो भूमिगर्भे तमामय।
अज्ञान इव भूयस्त्वात् प्रसूते ह्वययाद्वहिः ॥५८॥
गतेषु चात्र मासेषु षण्मापध्वस्य भूपतेः।
विलोक्याभ्यधिकीभूतां तां जरां स शठो भिषक् ॥५९॥
आजहार वमप्येवं पुत्रं तावदृशाकृतिम्।
राजानं त्वां करोमीति युवानं कृतमंविदम् ॥६०॥
तत गुरुद्धा भूगृहे दूरात्स्थाप्य तं नृपम्।
गुप्तं कृत्वा तया नीत्या गोत्रपन्नृपेतिक्षिपत्प्रिति ॥६१॥