कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 161, कुल 1079 में से
संदर्भ में पढ़ें१५८ कथासरित्सागर
इत्थं सुबुद्धिरल्पेन दैव यत्नेन बोध्यते।
न कृच्छ्रेणापि महता निर्विचारमतिः पुनः ॥३२॥
एवं हरिशिखनोक्ते श्रद्दधाने च गोमुखे।
मरुभूतिरनात्मज्ञः क्षीबोऽतिकुपिरतोऽब्रवीत् ॥३३॥
वरं गोमुख वाच्यं न तु बाह्योर्भवादृशाम्।
वाचालैः कुरुह क्लीबैनेत्रपाङ्गबाहुशालिनाम् ॥३४॥
इति ब्रुवाणं युध्यन्तुं मरुभूतिं स्मिताननः।
नरवाहनदत्तोऽथ प्रभुः स्वयमसान्त्वयत् ॥३५॥
विसृज्य तं च स्वगृहं तं बालसखिवत्सलः।
कुर्वन् दिवसकार्याणि निनाय सदहः सुखम् ॥३६॥
प्रातश्च सर्वेष्वायातेष्वथ मन्त्रिषु च प्रिया।
रत्नप्रभा जगादैवं मरुभूतौ त्रपानते ॥३७॥
त्वमार्यपुत्र सुकृती यस्य च सचिवा इमे।
आबाल्यस्नेहनिगडबिडाः शुद्धचेतसः ॥३८॥
एते च धन्या येषां त्वमीदृक स्नेहपरः प्रभुः।
प्राक्कर्मोपार्जिता यूयमन्योन्यस्य न संशयः ॥३९॥
एवमुक्ते तया राज्ञ्या वसन्तकसुतोऽब्रवीत्।
नरवाहनदत्तस्य नर्ममित्रं तपन्तकः ॥४०॥
सत्यं पूर्वाजितोऽयं नः स्वामी सच हि तिष्ठति।
पूर्वकर्मवशादेव तथा च श्रूयतां कथा ॥४१॥
तरणचन्द्रवैद्यस्य राज्ञः अजस्य च कथा
अभूच्छ्रीकण्ठनिलये विलासपुरनामनि।
पुरे विनयशीलाख्या मान्धाज्यर्धेन भूपतिः ॥४२॥
तस्य प्राणसमा देवी बभूव कमलप्रभा।
तया साकं च भोगैकसक्तस्तस्थौ चिराय सः ॥४३॥
अथ कालेन भूपस्य जरा सौन्दर्यहारिणी।
तस्याविरासीत् तां दृष्ट्वा स चासीद्विदुःखितः ॥४४॥
हिमाहतमिवाम्भोजं पलितं म्लानमाननम्।
दर्शयामि कथं वध्वे हा धिङ्मे मरणं वरम् ॥४५॥
इत्यादि चिन्तयन्सोऽथ सदस्याहूय भूपतिः।
वैद्यं तरणचन्द्राख्यं विजगाद कृतादरः ॥४६॥