कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 157, कुल 1079 में से
संदर्भ में पढ़ें१३४ कथासरित्सागर
मरुभूतिः स तु मनाक्पीतासवमदालसः।
बद्धपुष्पोज्झितस्रज विलम्बित उपाययौ ॥२॥
प्रस्खलत्पद्यया गत्या हासयंस्त गिरा तदा।
तत्प्रीतिरञ्चितमुखो नर्मणोवाच गोमुखः ॥३॥
यौगन्धरायणसुतो भूत्वा नीतिं न वेत्सि किम्।
प्रात पिबसि मद्य यन्मत्त प्रभुपैषि ध ॥४॥
तच्छ्रुत्वा तं रुषा क्षीबो मरुभूतिर्जगाद सः।
एतन्मे प्रभुणा वाच्यममुना गुरुणापि वा ॥५॥
त्वं तु क शिक्षयसि मामित्याकार्मज रे वद।
इत्युक्तवन्तं तं भूयो हसन्नाह स्म गोमुखः ॥६॥
भर्त्सयन्त्यविनीत किं स्वभावा प्रभविष्णवः।
अवश्य तस्य वक्तव्य यत्पादस्पर्शयोचितम् ॥७॥
सत्यं चटकपुत्रोऽहं त्वं मन्त्रिवृषम पुनः।
भक्ति ते जाल्ममेवैतद्द्रिवाण स्त परं न ते ॥८॥
इत्युक्तो गोमुखेनाथ मरुभूतिरभाषत।
तवेव शृण्मत्वं हि गोमुखस्योपपद्यते ॥९॥
तथापि यदचान्तोऽसि सोऽयं ते जातिसङ्करः।
एतच्छ्रुत्वा च सर्वेषु हसत्सूवाच गोमुखः ॥१ ॥
मरुभूतिरयं रत्न जातु यत्नशतैरपि।
अवश्यं वयमेतस्मिन्गूण को हि प्रचक्षतेत् ॥११॥
सिकतासेतुवृत्तान्तः
मन्यत्युक्षरत्नं तद्यदयरत्नन वध्यत।
सिकतासेतुवृत्तान्तं शृणु चात्र निदर्शनम् ॥१२॥
आसीत्कोऽपि प्रतिष्ठाने तपोदत्त इति द्विजः।
स पित्रा क्लिश्यमानोऽपि विद्यां नाभ्यस्त शैशवे ॥१३॥
अनन्तरं गृहंमाज सर्वैरनुशयान्वितः।
स विद्यासिद्धय यप्तुं तपो गङ्गातटं ययौ ॥१४॥
तत्राश्रितोग्रतपसस्तस्य तं वीक्ष्य विस्मितः।
बारयिष्यन्दिजश्छद्मा शत्रे निकटमाययौ ॥१५॥
आगत्य च स गङ्गायास्तटाद्भिरोप भारिणि।
उद्यतोदस्य सिकता पद्यतन्तम्स्य भोर्भिणि ॥१६॥