सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 151, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 151

१२८ कथासरित्सागर
इति तस्या वचः श्रुत्वा सुप्ताया दुष्टचेतसः।
उत्पन्ननिश्चयो राजा क्रोधादुत्थाय निर्ययौ ॥२०९॥
गत्वा स्वावासमानाय्य स जगाद महत्तरान्।
उद्बुध्य तां गुणवरां स्नातामानयत द्रुतम् ॥२१ ॥
अयं क्षणो ह्यद्यतनो ज्ञानिनानिष्टशान्तये।
तस्या मृग्गूढवासस्य कथितोऽभूत् किलावधिः ॥२११॥
तच्छ्रुत्वा तैस्तथेत्युक्त्वा गत्वा स्नाता विभूषिता।
राज्ञी गुणवरा क्षिप्रमानिन्ये सा तदन्तिकम् ॥२१२॥
सतस्तौ दम्पती दीर्घविरहार्णवनिर्वृतौ।
अन्योन्यालिङ्गनामृतौ निन्यतुस्तो विभावरीम् ॥२१३॥
अवर्णयत् स राजात्र देव्यै तस्यै मुदा तदा।
तं शृङ्गभुजवृत्तान्तं तदेवं निजसूनवे ॥२१४॥
साच प्रबुद्धा राजानं गतं बुद्ध्वा सवाश्छलम्।
सम्भाव्येवायशोभीता विषादमगमत्परम् ॥२१५॥
प्रातश्च स नृपो वीरभुजो गुणवरान्तिकम्।
वानामयच्छृङ्गभुजं सुतं रूपशिखायुतम् ॥२१६॥
सोऽभ्येत्य मातरं दृष्ट्वा हृष्टो मृद्गृहनिर्गताम्।
तयोर्ववन्दे चरणौ पित्रोर्नववधूततः ॥२१७॥
अभ्योत्तीर्णं समाश्लिष्य पुत्रं गुणवरापि सा।
तां च स्नुषां तथा प्राप्तामुत्सवादुत्सवं ययौ ॥२१८॥
तत पितुर्निवेशात् स तस्यै शृङ्गभुजोऽब्रवीत्।
विस्तरेण स्ववृत्तान्तं यच्च रूपशिखाकृतम् ॥२१९॥
ततो गुणवरा राज्ञी सा प्रहृष्टा जगाद तम्।
किं किं न रूपशिखया कृतं पुत्र त्वदानया ॥२२ ॥
हित्वा स्वजीवितं बन्धून् देशं बहु यदेतया।
भीष्योतानि प्रवृत्तानि तुभ्यं चित्रचरित्रया ॥२२१॥
त्वदर्थमवतीर्णैषा कापि देवी विधेर्वशात्।
पतिव्रतानां सर्वासाम् यया मूर्ध्नि पदं कृतम् ॥२२२॥
एवमुक्ते तया राज्ञ्या सद्वाक्यमभिनन्दति।
राज्ञि रूपशिखायां च विनयानतमूर्धनि ॥२२३॥