कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 15, कुल 1079 में से
संदर्भ में पढ़ेंकथासरित्सागर
एव दिनेषु गच्छत्सु सस्योद्भाववशात्$^१$किल।
अपुत्रताकृता राजंश्चिन्ता जात्वुदपद्यत ॥२७॥
तमतिदुर्मनस्कं च दृष्ट्वा पप्रच्छ तं प्रिया।
अलङ्कारप्रभा देवी दौर्मनस्यस्य कारणम् ॥२८॥
ततः स राजावादीतां सर्वसम्पत्तिरस्ति मे।
एकस्तु पुत्रो नास्तीति दुःखं मां देवि बाधते ॥२९॥
या मया प्राक्पुत्रस्य पुरः सत्त्ववतः कथा।
श्रुता तत्स्मरणोद्भाताच्चिन्तैषा चोद्गता मम ॥३०॥
कीदृशी सा कथा देवेत्युक्तो देव्या तया च सः।
राजा तस्यै कथामेव संक्षेपातामवर्णयत् ॥३१॥
राज्ञः सत्त्वशीलस्य कथा
नगरे चित्रकूटारुये ब्राह्मणार्जनतत्परः।
बभूव ब्राह्मणवरो नाम्नान्वर्थो महीपतिः ॥३२॥
तस्यासीत्सत्त्वशीलाख्यो जयी युद्धैकसेवकः।
मासे मासे च लेभे स तस्मात् स्वर्णशतं नृपात् ॥३३॥
पर्याप्तं तच्च नेवाभूत्यागिनस्तस्य काञ्चनम्।
अपुत्रत्वाच्च दानैकविनोदासक्तचेतसः ॥३४॥
पुत्रो विनोदहेतुर्मे दत्तस्तान्न वेधसा।
दत्तं च दानव्यसनं तद्व्यर्थंविनाकृतम् ॥३५॥
वरं जीर्णस्य शुष्कस्य तरोर्जन्मोपलस्य वा।
न संसारे दरिद्रस्य त्यागैकव्यसनस्य च ॥३६॥
इति सञ्चिन्त्यमन्त्रित्य सत्त्वशीलः स जातुचित्।
उद्याने सञ्चरन् प्राप निधिं दैवात्क्ववाचन ॥३७॥
समृद्धयैष तमादाय भूरिकाञ्चनभास्वरम्।
महावैरत्यदचिरं निनाय प्रसभं गृहम् ॥३८॥
ततः स भोगाम्भुञ्जानो ब्राह्मणेभ्यो वदद्द्वसु।
भृत्येभ्यश्च सुहृद्भ्यश्च प्रापवास्तेऽथ सत्विरम् ॥३९॥
१ प्रसङ्गवशादित्यर्थः।