कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 145, कुल 1079 में से
संदर्भ में पढ़ें१२२ कथासरित्सागर
तमूचे जन्मभूमिं स्वमटव्यामपि मत्कृते ।
आवेद्य पितुस्तं च हस्ते ह्यम्बर कुरु ॥१६४॥
इति शृङ्गभुजेनोक्ता सा स रूपशिखाब्रवीत् ।
यदादिशसि तत्कार्यमार्यपुत्र मयाधुना ॥१६५॥
क्व जन्मभूः क्व स्वजनः सर्वमेतद् भवान् मम ।
न पतिव्यतिरेकेण सुस्त्रीणामपरा गतिः ॥१६६॥
तातस्यावेदनीयं तु नैतत्सोऽस्मान्हि न त्यजेत् ।
तस्मादविदितं तस्य गन्तव्यं क्रोधनस्य सः ॥१६७॥
आगमिष्यति यत् पश्चाद् बुद्ध्वा परिजनात्ततः ।
मोहयिष्याम्यबुद्धिं तं भीततुल्यं स्वविद्यया ॥१६८॥
इति तस्या वचः श्रुत्वा प्रहृष्टः सोऽमरद्युतिः ।
दत्तरत्न्यार्धमानर्घरत्नपूर्णसमुद्गया ॥१६९॥
तयैवानीततन्पादसुवर्णक्षरया सह ।
आरुह्य खरवेगाख्यं तदीयं तुरगोत्तमम् ॥१७०॥
वञ्चयित्वा परिजनं स्वैरोद्यानभ्रमच्छलात् ।
ततः शृङ्गभुजः प्रायादर्धमानपुरं प्रति ॥१७१॥
गतयोर्दूरमध्वानं बुद्ध्वा सोऽग्निश्शिखस्तयोः ।
दम्पत्योराययौ पश्चाद्भ्रमसा राक्षसः क्रुधा ॥१७२॥
तस्यागमनवगोत्थं शब्दं श्रुत्वा च दूरतः ।
मार्गे रूपशिखा साध्व तं शृङ्गभुजमब्रवीत् ॥१७३॥
आर्यपुत्रागतस्तातो निवर्तयितुमेष नः ।
तत्त्वमास्वेह निःशङ्कः पश्यैतं वञ्चये कथम् ॥१७४॥
नैष द्रक्ष्यति साश्वं त्वां विद्ययाच्छादितं मया ।
इत्युक्त्वाश्वादवतीर्णा सा पुरुषं माययाऽकरोत् ॥१७५॥
इहायाति महद्रक्षस्तत्त्वं तूष्णीं क्षणं भव ।
इत्युक्त्वा काष्ठिकं चात्र वार्धं वनमागतम् ॥१७६॥
तत्कुठारेण काष्ठानि पाटयन्ती किलास्त सा ।
तदा रूपशिखा शृङ्गभुजे पश्यति सस्मिते ॥१७७॥
तावत् सोऽग्निशिखस्तत्र प्राप्यैव काष्ठिकाकृतिम् ।
दृष्ट्वावतीर्य भगनाम्मुङ पप्रच्छ राक्षसः ॥१७८॥