सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 143, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 143

अथ प्रशमन्नन्तस्तत्त्रिपामायाविजृम्भितम् ।
गतमीरायणौ धूमपुरं शृङ्गभुजः स तत् ॥१४९॥
ततो रूपशिखायै तं समर्प्याश्वं निवेद्य च।
यथा कृतं स दृष्टायै जगामाग्निशिखान्तिकम् ॥१५०॥
निमन्त्रितो मया गत्वा भ्राता धूमशिखस्तव।
इत्युक्तवन्तं तं सोऽत्र सभ्रान्तोऽग्निशिखोऽब्रवीत् ॥१५१॥
यदि तत्र गतोऽभूस्त्वमभिज्ञानं तदुच्यताम्।
इति तेनोदितः शृङ्गभुजो जिह्यं जगाद तम् ॥१५२॥
शृण्विह वक्ष्यमभिज्ञानं तत्र देवकुले विभो।
वामेऽस्ति पार्वती पार्श्वे दक्षिणे च विनायकः ॥१५३॥
तच्छ्रुत्वा विस्मितः सोऽग्निशिखः क्षणमचिन्तयत्।
क्व गतोऽपि मद्‌भ्रात्रा शक्तितो नैष साधितुम् ॥१५४॥
तञ्जाने मानुषो नायं देवोऽप्य कोऽपि निश्चितम्।
अनुरूपस्तवेषोऽस्तु मत्सुताया दुहितुर्मम ॥१५५॥
इति सञ्चिन्त्य तं शृङ्गभुजं रूपशिखान्तिकम्।
कृतार्थं व्यसृजत्स्वं तु नाङ्गभेदं विवेद सः ॥१५६॥
स च शृङ्गभुजस्तत्र गत्वा परिरभ्योत्सुकः।
भुक्तपीतस्तया साकं कञ्चिच्चानयन्त्रिथाम् ॥१५७॥
प्रातश्चाग्निशिखस्तस्मै तां स रूपशिखां ददौ।
ऋद्ध्या स्वसिद्धमुचितया विधिवद्वह्रिसाक्षिकम् ॥१५८॥
क्व राक्षससुता कुत्र राजपुत्रः क्व चैतयोः।
विवाहो बत चित्रेयं गतिः प्राक्तनकर्मणाम् ॥१५९॥
स रेजे राजसूनुस्तां प्राप्य रक्षःसुतां प्रियाम्।
पेशलां पङ्कजम्भूतां राजहंसोऽब्जिनीमिव ॥१६०॥
तस्थौ च स तया तत्र सर्वैकभमसा सह।
भुञ्जानो विविधान् भोगाम् रक्षःसिद्धयुपकल्पिताम् ॥१६१॥
गतेष्वथ दिनेष्वत्र तां स रूपशिखां रहः।
मवादीद्देहि गच्छावो वर्धमानपुरं प्रिये ॥१६२॥
सा हि स्वा राजधानी मस्तस्याश्चैवं प्रवासनम्।
परैः सोढुं न शक्नोमि मामप्राणा हि मादृशाः ॥१६३॥