कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 139, कुल 1079 में से
संदर्भ में पढ़ें११६ कथासरित्सागर
तच्छ्रुत्वा तत्र गत्वा स दृष्ट्वा राजसुतस्तिलान् ।
राक्षसान्विह्वलो यावद्वप्तुं प्रक्रमते कृपन् ॥११९॥
तावद्ददर्श भूमिं तां कृष्टमुप्तांश्च तांस्तिलान् ।
प्रियामायाबलात्सर्वान्क्रमेणैव सुविस्मितः ॥१२०॥
गत्वा चाग्निशिखायैतत्कृतं कार्यं न्यवेदयत् ।
ततः स वञ्चको भूयस्तमभाषत राक्षसः ॥१२१॥
न ममोप्तैस्तिलैः कार्यं गच्छ राशीकुरुष्व तान् ।
तच्छ्रुत्वोपेत्य तद्रूपशिखायै सोऽब्रवीत्पुनः ॥१२२॥
सा तं विसृज्य भूमिं तां सृष्ट्वासंख्याः पिपीलिकाः ।
ताभिः सङ्घटयामास तिलांस्तान्निजमायया ॥१२३॥
सवृष्ट्वैव पुनर्गत्वा तस्मै सोऽग्निशिखाय तान् ।
न्यवेदयच्छृङ्गभुजस्तिलां राशीकृतानपि ॥१२४॥
ततः सोऽग्निशिखो मूर्खं शठो भूयोऽप्युवाच तम् ।
इतो दक्षिणतो गत्वा योजनद्वयमात्रकम् ॥१२५॥
अस्ति देवकुलं शून्यमरण्ये भद्र शाम्भवम् ।
तस्मिन्धूमशिखो नाम भ्राता वसति मे प्रियः ॥१२६॥
तत्रेदानीं व्रजेच्चैव वदेद्देवकुलाग्रतः ।
भो धूमशिख दूतस्ते सानुगस्य निमन्त्रणम् ॥१२७॥
प्रहितोऽग्निशिखेनाहं शीघ्रमागम्यतां त्वया ।
भावी रूपशिखाया हि प्रातः परिणयोत्सवः ॥१२८॥
एतावदुक्त्वा चैवात्र त्वमिहायाहि सत्वरम् ।
प्रातः परिणयस्वैतां सुतां रूपशिखां मम ॥१२९॥
इत्युक्तस्तेन पापेन तथेत्युक्त्वा तथैव सः ।
गत्वा रूपशिखायास्तत्सद्यः शृङ्गभुजोऽब्रवीत् ॥१३०॥
सा चास्मै मृत्तिकां तोयं कण्टकानग्निमेव च ।
दत्त्वा तस्य वधार्थं च निजमेवं जगाद तम् ॥१३१॥
एतदादाय तुरगं गत्वा देवकुलं च तत् ।
द्रुतं धूमशिखायोक्त्वा तत्तादृशं निमन्त्रणम् ॥१३२॥
आगन्तव्यं त्वया शीघ्रमन्येनानेन पाप्मना ।
पृष्ट्वा शोणितपं च मृत्युर्लब्धिस्त्वया परम् ॥१३३॥