सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 137, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 137

सर्वा वयं सदृश्यश्च तुल्याभरणवाससः।
सर्वासां सन्ति कण्ठेषु तुल्या हारलताश्च नः॥१०४॥
तत्तातो मेलयित्वास्मांस्त्वां विमोहयितुं प्रिय।
आसां मध्यादभीष्टां त्वं वृणीष्वेति वदिष्यति॥१०५॥
जानाम्येतमहं तस्य व्याजाभिप्रायमीदृशम्।
सर्वा सङ्कटयत्यस्मान्किमर्थमयमन्यथा ॥१०६॥
तवा मूर्ध्नि करिष्ये च कण्ठाद्धारलतामहम्।
तदभिज्ञानलक्ष्म्या यां वनमालां मयि क्षिपे ॥१०७॥
भीतप्रायश्च तातोऽस्य बुद्धिर्नास्य विवेकिनी।
तथा मय्यपि मार्गोऽस्य जातिसिद्धः क्व गच्छति॥१०८॥
तदस्य वञ्चनार्थं ते यद्यत्किञ्चिद्वदिष्यति।
अङ्गीकृत्य त्वया तत्तद्वाच्यं मे वेद्म्यहं परम्॥१०९॥
इत्युक्त्वा भगिनीनां सा पार्श्वं रूपशिखा ययौ।
तथेत्युक्त्वा च गतवांस्नातुं शृङ्गभुजोऽपि सः॥११०॥
अथागात्स्वसृभिः साकं पार्श्वं रूपशिखा पितुः।
सोऽपि शृङ्गभुजश्चैतैः स्नापितोऽत्रागमत्पुनः॥१११॥
आसां मध्यान्निजेष्टायै प्रयच्छैतामिति ब्रुवन्।
वनमालां ददौ शृङ्गमूनायाग्निशिखोऽथ सः॥११२॥
सोऽप्यादायैव तां रूपशिखायाः क्षिप्तवान्गले।
प्राङ्मूर्धन्यस्तसङ्केतहारभ्रष्टेनुं पारमञ्ज ॥११३॥
ततः सोऽग्निशिखो रूपशिखां शृङ्गभुजान्विताम्।
निजगाद विभास्ते यां प्रातस्ताहमङ्गलम्॥११४॥
इत्युक्त्वा तौ च ताश्चान्या विससर्ज सुता गृहम्।
क्षणाच्च तं शृङ्गभुजं समाहूयैवमब्रवीत्॥११५॥
गच्छैवं दान्तयुगलं समादाय पुरावहिः।
राधिस्यं भुवि तन्नाद्य तिलसारीशतं वप॥११६॥
तच्छ्रुत्वा स तथेत्युक्त्वा गत्वा शृङ्गभुजोऽब्रवीत्।
खिन्नो रूपशिखायास्तत्साप्येवं निजगाद तम्॥११७॥
आर्यपुत्र न कार्यस्ते विषादोऽत्र मनागपि।
गच्छ त्वं साधयाम्येतदहं क्षिप्रं स्वमायया॥११८॥