कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 133, कुल 1079 में से
संदर्भ में पढ़ें[Header]
११० | कथासरित्सागर
तच्छ्रुत्वैव स जिह्रांस्तान् वीर शृङ्गभुजोऽब्रवीत्।
धीरा भवत मा भूद्वो भयं कार्पण्यमुज्झत ॥७४॥
आनेष्यामि शरं गत्वा हत्वा तं राक्षसाधमम्।
इत्युक्त्वा सशरं चापं निजं शृङ्गभुजोऽग्रहीत् ॥७५॥
ययौ च तां समुद्दिश्य दिशं यां स बको गतः।
पतितां रक्तसृग्धारां भूमावनुसरञ्जवात् ॥७६॥
दृष्टेषु तेषु चान्येषु मातृपार्श्वं गतेष्वथ।
गच्छन् स क्रमशः प्राप दूरां शृङ्गभुजोऽटवीम् ॥७७॥
तस्यां ददर्श चिन्वानां वनस्यान्तर्महत्पुरम्।
भोगायोपनतं काले फलं पुण्यतरोरिव ॥७८॥
तत्रोद्यानतरोर्मूले स विश्रान्त क्षणादिव।
आश्चर्यरूपामार्यान्तीमत्र कन्यामवेक्षत ॥७९॥
विरहे जीवितहरां सङ्गमे प्राणदायिनीम्।
विचित्रां निर्मितां धात्रा विषामृतमयीमिव ॥८०॥
शनैरुपागतां तां च चक्षुषा प्रेमवर्षिणा।
पश्यन्तीं तद्गतमना स पप्रच्छ नृपात्मजः ॥८१॥
किं नामधेयं कस्येदं पुरं हरिणलोचने।
त्वं च का किं तवेहागमनं कथ्यतामिति ॥८२॥
ततः साचीकृतमुखी न्यस्तदृष्टिर्महीतले।
सा च जगाद मुदती मधुरस्निग्धया गिरा ॥८३॥
इदं धूमपुरं नाम सर्वसम्पद्गृहं पुरम्।
अस्मिन् वसत्यग्निदिशो नाम राक्षसपुङ्गवः ॥८४॥
तस्य रूपशिखां नाम सबुधी विद्धि मां सुताम्।
इहागतामसामान्यात्त्वद्रूपाद्धृतमानसाम् ॥८५॥
त्वं ब्रूहि मेऽधुना कोऽसि किमिहाभ्यागतोऽसि च।
एवमुक्ते तया तस्मै सर्वं शृङ्गभुजः क्षणम् ॥८६॥
सोऽसौ यन्नामधेयश्च यस्य पुत्रो महीपतेः।
यथा शरनिमित्तेन तद्धूमपुरमागतः ॥८७॥
ततो विदितवृत्तान्ता सा तं रूपशिखाभ्यधात्।
न त्वया सुदृगन्योऽस्ति त्रैलोक्येऽपि धनुर्धरः ॥८८॥