सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 13, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 13

१ कथासरित्सागर
प्रथमस्तरङ्गः
मङ्गलाचरणम्
केलिकेशग्रहव्यग्रगौरीकरनखामृतम् ।
शिवायानेकबक्त्राम्रेडनमिव शार्वं शिरोऽस्तु वः ॥१॥१
करं दानाम्भसार्द्रं यं कुञ्चिताग्रं प्रसारयन्।
ददत् सिद्धिमिवाभाति स पायाद्वो गजाननः ॥२॥
रत्नप्रभायाः कथा
एवं स तत्र कौशाम्ब्यां पुत्रो वत्सेश्वरस्य ताम्।
परिणीय युवा प्राणसमां मदनमञ्चुकाम् ॥३॥
नरवाहनदत्तः स्वे सचिवैर्गोमुखादिभिः।
सार्धं तस्यौ यथाकामं परिपूर्णमनोरथः ॥४॥
एकदा चोल्लसद्गन्धकोकिलालापराजिते।
प्रवर्त्तितकथाप्रास्यवसन्तमध्यमाह्वते ॥५॥
प्रगीतमधुरोन्मगे सम्प्राप्ते च मधूत्सवे।
ययौ विहर्तुमुद्यानं राजपुत्रः समन्वितः ॥६॥
तत्र भ्रातृवशादाकस्मादुपत्य निजगाद तम्।
प्रहर्षोत्फुल्लनयनः स्ववयस्यस्तपन्तकः ॥७॥
युवराज मया दृष्टा क्वापीतो नातिदूरतः।
कन्यावतीर्य गगनात् स्थिताशोकतरोरधः ॥८॥
तयैव प्रेषितश्चाहमुपेत्य ससखीकया।
स्वकान्तिद्योतितदिशा त्वाह्वानाय कन्यया ॥९॥
तच्छ्रुत्वा स स्वसचिवैः साकं तद्दर्शनात्सुकः।
नरवाहनदत्तस्तत्समीपमगाद्द्रुतम् ॥१०॥
ददर्श तत्र तां कान्तां लोललोचनषट्पदाम्।
शोणोष्ठपल्लवां पीनस्तनस्तबकशोभिताम् ॥११॥
परागपुञ्जगौराङ्गीं छायया सापहारिणीम्।
मालोचिताकृतिं साक्षादिवोपवनदेवताम् ॥१२॥
१ अत्र मङ्गलाचरणे शिवाशिरसः सम्भोगशृङ्गारवर्णनमस्ति। पार्वती स्वाधीन-
भर्त्तृका वर्त्तते। अलङ्कारश्चात्रोत्प्रेक्षा। २ अत्रोत्प्रेक्षालङ्कारः।