कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 127, कुल 1079 में से
संदर्भ में पढ़ें१४ कथासरित्सागर
सर्वत्रान्तःपुरे चैतत्प्रसिद्धमिह गीयते।
इत्युक्तः स तया राजा दध्यौ च विममर्श च ॥२९॥
गत्वा चैकैकशो राज्ञीरन्याः पप्रच्छ ताः क्रमात्।
ताश्च तस्मै तथैवोचुः सर्वा रक्षितकथवा ॥३०॥
ततः स मतिमान् राजा जितक्रोधो व्यचिन्तयत्।
तयो सम्भाष्यते नैतत्प्रवादश्चायमीदृशः ॥३१॥
तदा निश्चित्य कार्यो मे प्रतिमेषो न कस्यचित्।
युक्त्या तु परिहार्यौ तौ सम्प्रत्यस्तमवेक्षितुम् ॥३२॥
इति निश्चित्य सोऽन्येद्युरास्थानेऽन्तःपुराधिपम्।
सुरक्षितं तमाहूय कृतकोपं समभ्यधात् ॥३३॥
ब्रह्महत्या त्वया पाप कृतेत्यवगतं मया।
तत्त्वामकृतसत्तीर्थयात्रं न द्रष्टुमुत्सहे ॥३४॥
तच्छ्रुत्वा च समुद्भ्रान्तः ब्रह्महत्या कुतो मया।
कृता देवेति जल्पन्तं स राजा पुनरब्रवीत् ॥३५॥
मा स्म धाष्ट्र्यं कृथा गच्छ काश्मीराञ्त्यापनाशनान्।
यत्र तद्विजयक्षेत्रं नन्दिक्षेत्रं च पावनम् ॥३६॥
वाराहं यत्र च क्षेत्रं ये पूताश्चक्रपाणिना।
धत्ते नाम वितस्तेति वहन्ती यत्र जाह्नवी ॥३७॥
यत्र तन्मण्डपक्षेत्रं यत्र चोत्तरमानसम्।
तत्तीर्थयात्रापूतो मां पुनर्द्रक्ष्यसि नान्यथा ॥३८॥
एवमुक्त्वा तमवशं विससर्ज सुरक्षितम्।
स युक्त्या तीर्थयात्रायां दूरं वीरभुजो नृपः ॥३९॥
छतो गुणवरावेश्म पूर्वं तस्या जगाम सः।
सस्नेहश्च सकोपश्च सविमर्शश्च भूपतिः ॥४०॥
तत्र सा खिन्नमनसं तं दृष्ट्वापृच्छदादृता।
आर्यपुत्र किमद्यैवमकस्माद् दुर्मनायसे ॥४१॥
तच्छ्रुत्वा स महीभृत्तामेवं कृतकमभ्यधात्।
अद्याग्य महाभागी देवी मां कोऽप्यभाषत ॥४२॥
राजन् गुणवरा देवी मासं कञ्चन भूगृहे।
स्थापनीया त्वया भाव्यं स्वयं च ब्रह्मचारिणा ॥४३॥