सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 123, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 123

१ कथासरित्सागर
पञ्चमस्तरङ्गः
राजपुत्रशृङ्गभुजस्य रूपशिखायाश्च कथा
एवं कथितवत्यत्र मरुभूतौ चमूपतिः ।
नरवाहनदत्तस्य पुरो हरिशिखोऽब्रवीत् ॥१॥
सत्यमेव न सुस्त्रीणां भर्तुरन्यत्परायणम् ।
तथा च श्रूयतामेषाप्यत्र चित्रतरा कथा ॥२॥
वर्धमानपुरं नाम यदस्ति नगरं भुवि ।
तत्र वीरभुजाख्योऽभूद्राजा धर्मभृतां वरः ॥३॥
अन्तःपुरशते तस्य विद्यमानेऽप्यभूत्प्रभोः ।
एका गुणवरा नाम राज्ञी प्राणाधिकप्रिया ॥४॥
पत्नीशतस्य मध्य च न तावद् दैवयोगतः ।
एकस्यामपि कस्याञ्चित्सुतस्तस्योदपद्यत ॥५॥
तेन वैद्यं स पप्रच्छ श्रुतवर्धनसञ्ज्ञकम् ।
कश्चिदस्त्यौषधं तादृग्येन स्यात्पुत्रसम्भवः ॥६॥
तच्छ्रुत्वा सोऽब्रवीद्वैद्यो देवेनैतत्प्रसाध्यमहम् ।
वन्यच्छागस्य किन्तु देवेनानाय्यतां गलः ॥७॥
इत्याकर्ण्य भिषग्वाक्यं प्रतीहारं स भूपतिः ।
आदिश्यानाययामास तस्य च्छागवरं वनात् ॥८॥
तं छागं राजसूनुघ्नं समर्प्य स भिषक्ततः ।
तन्मांसे साधयामास राज्ञ्यर्थे रसमोत्तमम् ॥९॥
आदिश्यैकत्र राज्ञीनां प्रेष्य देवमर्चितुम् ।
गते राज्ञि मिलन्ति स्म देव्य एकत्र यत्र ताः ॥१०॥
एका तु मिलिता नासीद्राज्ञो गुणवरात्र सा ।
राज्ञो देवार्चनरतस्य तत्कालं निकटे स्थिता ॥११॥
मिलिताभ्यश्च ताभ्यस्तत्पानार्थं चूर्णमिश्रितम् ।
अविभज्यैव रसकं निधाय स ददौ भिषक् ॥१२॥
कृताप्लवार्चनः सोऽथ राजागत्य प्रियायुतः ।
वीथ्याद्येवोपयुक्तं तद्दृष्ट्वा वैद्यं समभ्यधात् ॥१३॥
अहो न पायितं किञ्चित्त्वया गुणवराकृते ।
यत्प्रधानोऽयमारम्भस्तन्मेव तव विस्मृतम् ॥१४॥