कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 119, कुल 1079 में से
संदर्भ में पढ़ें५६ कथासरित्सागर
तन्निमे नरसिंहोऽयमजेयोऽप्रतिमस्ती बलैः ।
द्वन्द्वयुद्धेन च मया साकमय नियुध्यसे ॥१३२॥
भूचर धुधरो भूत्वा न चैन कृतवानहम्।
अधर्मयुद्धेन जय को हीच्छेत्क्षत्रियो भवन् ॥१३३॥
तन्मे प्रतिज्ञासाध्य यद्बन्धिभिर्द्वारवर्तिन ।
आश्वदन् नृपस्यास्य तत्र साहायक कुरु ॥१३४
एतच्छ्रुत्वैव धन्यास्मीत्युक्त्वा राज्ञामूना सह।
समन्त्र्य गणिकाथ स्वानाहूयोवाच बन्दिनः ॥१३५॥
नरसिंहो यदा राजा गृहमेष्यति मे तदा।
द्वारसन्निहितैर्भाव्य भवद्भिर्दत्तदृष्टिभिः ॥१३६॥
देव भक्तोऽनुरक्तश्च नरसिंहनृपस्त्वयि।
इति वाच्य च युष्माभिस्तस्य प्रविशतो मुहुः ॥१३७॥
कः स्थितोऽत्रति यदि च प्रक्ष्यत्युत्प्रेक्ष्य तत्क्षणम्।
स्थितोऽत्र विक्रमादित्य इति वक्तव्य एव सः ॥१३८॥
इत्युक्त्वा तान्विसृज्याथ प्रतीहारी जगाद सा।
नरसिंहो न राजात्र निवेश्यः प्रविशन्निति ॥१३९॥
एव कृत्वा पुन प्राप्तप्राणनाथा यथासुखम्।
तस्थौ मदनमाला सा नि सस्य वदती यस्तु ॥१४०॥
तत श्रुत्वातिदान तत्सौवर्णपुरुषोद्भवम्।
नरसिंहनृपो हित्वाप्यागाद्द्रष्टु स तद्गृहम् ॥१४१॥
प्रतीहारानिषिद्धस्य तस्य प्रविशतोऽत्र च।
भा बहिर्द्वारसिस्तारमूबू घर्मेऽपि बन्दिनः ॥१४२॥
नरसिंहो नृपो देव प्रणतो भक्तिमागिति।
तच्च शृण्वन्स सामर्ष सशङ्कश्चामवन्नृपः ॥१४३॥
पृष्ट्वा च कः स्थितोऽत्रेति श्रुत्वा तत्र स्थित च तम्।
राजानं विक्रमादित्य क्षणमेवमचिन्तयत् ॥१४४॥
तदिद प्राक्प्रतिज्ञात द्वारि मन्त्रिनिवेदनम्।
निर्मूढममुना राज्ञा प्रसह्यान्त प्रविश्य मे ॥१४५॥
अहो राजायमोजस्वी येनाद्यैवमह जितः।
न च बध्यो बलेनाद्यावेशकी मे गृहागतः ॥१४६॥