कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 109, कुल 1079 में से
संदर्भ में पढ़ेंकथासरित्सागर
प्रविष्टा तत्र नाद्राक्षीत्प्रियं तं नृपतिं क्वचित्।
अद्राक्षीत्तु महोच्छायान्¹ सौवर्णान्पञ्च पूरुषान् ॥८८॥
तान्दृष्ट्वा समनासाद्य दुःखिता सा व्यचिन्तयत्।
नूनं विद्याधरः कोऽपि गन्धर्वो वा स मे प्रियः ॥८९॥
यः सविभज्य मामेभिः पुंभिरुत्पत्य स गतः।
तदेतैर्भर्तृतुल्यैः किं सवियुक्ता करोम्यहम् ॥९०॥
इति सञ्चिन्त्य पृच्छन्ती निजं परिजनं मुहुः।
तत्प्रवृत्तिं विनिर्गत्य तत्र बभ्राम सर्वतः ॥९१॥
न च लेभे रतिं क्वापि हर्म्योद्यानगृहादिषु।
विलपन्ती वियोगार्त्ता शरीरत्यागसम्मुखी ॥९२॥
मा विषादं कृथा देवि कोऽपि कामचरो हि सः।
देवो यदृच्छया भूयो भव्ये त्वामभ्युपैष्यति ॥९३॥
इत्यादिभिः प्रदत्तास्थैर्यवाक्यैः परिजनेन सा।
आश्वासिता कथमपि प्रतिज्ञामकरोदिमाम् ॥९४॥
षण्मासमध्ये यदि मे न स दास्यति दर्शनम्।
दत्तसर्वस्वया वह्नौ प्रवेष्टव्यं ततो मया ॥९५॥
इति प्रतिज्ञयात्मानं संस्तभ्यामृतपक्षं सा।
मन्वहं ददती दानं ध्यायन्ती तं स्ववल्लभम् ॥९६॥
एकदा स्वर्णपुंसां च तेषामेकस्य सा भुजौ।
छेदयित्वा द्विजातिभ्यो ददौ दानैकतत्परा ॥९७॥
द्वितीयेऽह्नि च साद्राक्षीत्तादृक्षावेव तस्य तौ।
रात्रिमध्ये समुत्पन्नौ भुजौ सञ्जातविस्मया ॥९८॥
ततः क्रमेण सान्येषां भुजौ दानार्थमच्छिनत्।
उत्पेदिरे च सर्वेषां पुनस्तेषां तथैव ते ॥९९॥
अथ तानक्षयान् दृष्ट्वा विप्रेभ्यो भेदसत्त्वया।
अभ्यर्थिभ्यो ददौ छित्त्वा तद्भुजान् सा शुभान्वहम् ॥१००॥
दिनेष्वल्पैर्गतां दिक्षु श्रुत्वा तां ख्यातिमाययौ।
तत्र संग्रामदत्ताख्यो विप्रः पाटलिपुत्रकात् ॥१०१॥
१ मह्युन्नतान्।