कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 1070, कुल 1079 में से
संदर्भ में पढ़ें१८ कथासरित्सागर
स दयालुः समाश्वास्य तां स्वमाश्रममानयत्।
यमुने तव पाल्येयमिति च न्यस्तवान् मयि ॥८२॥
वलात्तटादियं प्राप्ता मयेति स महामुनिः।
नाम्ना तामकरोद्वेलां बालां मुनिजनप्रियाम् ॥८३॥
तत्स्नेहेन च चित्तं मेऽप्यस्तस्नेहकृपामयम्।
ब्रह्मचर्यनिरस्तोऽपि हा संसारोऽथ बाधते ॥८४॥
आपाणिग्रहणां तां च नवयौवनशोभिनीम्।
ब्रूयत चन्द्रसारैतां वर्द्ध दर्शं मनो मम ॥८५॥
सा च प्राग्जन्मभार्या ते बुद्ध्वा च त्वामिहागतम्।
प्रणिधानादहं पुत्र सम्प्राप्तैषा तवान्तिकम् ॥८६॥
तदागच्छापयच्छस्व वेलां तामस्मदर्पिताम्।
क्लेशोऽनुभूतः साफल्यं भजतां युवयोरयम् ॥८७॥
इत्यानन्द्य गिराऽभ्रवृष्ट्येव नयति स्म सा।
यमुना मां भगवती मातङ्गस्याश्रमं पितुः ॥८८॥
विज्ञप्तश्च तया तत्र तां मातङ्गमुनिः स मे।
ददौ वत्सां मनोगम्यसम्पत्तिमिव रूपिणीम् ॥८९॥
ततस्तया समं तत्र वेत्याहं सुखस्थितः।
एकदा वधुतोऽकार्षं जलकेलिं सरोऽम्भसि ॥९०॥
अपश्यता सच्छलनाप्यवेक्षं क्षिपता जलम्।
सिक्तः स्नानप्रवृत्तोऽत्र स मातङ्गमुनिर्मया ॥९१॥
स तेन कुपितः शापं सभार्यं मामपातयत्।
वियोगो भविता पापो दम्पत्योर्युवयोरिति ॥९२॥
ततस्तया दीनगिरा वध्व्या पादलग्नया।
प्रार्थितः स मुनिर्ध्यात्वा शापान्तं नो समादिशत् ॥९३॥
जेता करेणुवेगेन योऽश्वरत्नयुगं बली।
नरवाहनदत्तं स भाविविद्याधरेश्वरम् ॥९४॥
चन्द्रसार यदा द्रक्ष्यस्याराद्वत्सेश्वरात्मजम्।
सङ्गत्स्यसे तदा शापप्रशमाद्भार्ययानया ॥९५॥
इत्युक्त्वा स मातङ्गोऽपि कृत्वा स्नानादिकां क्रियाम्।
दर्शनाय हरेर्व्योम्ना श्वेतद्वीप गतोऽभवत् ॥९६॥