कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 1056, कुल 1079 में से
संदर्भ में पढ़ें१९४ कथासरित्सागर
गत्वा च प्राप्तभार्येण तेन सख्या समं धृतं ।
पित्रे प्रतापनाय स्वनृत्तान्तमवर्णयत् ॥१८५॥
तेन दत्तं श्रमप्राप्तं राज्यं दत्त्वानुजन्मने ।
शूरसेनाय स ययौ वैद्याधरपुरं निजम् ॥१८६॥
तत्र विद्याधरैश्वर्यसुखं हेमप्रभामृतं ।
लक्ष्मीसङ्गं स भुङ्क्त स्म सख्या तेनान्वितश्चिरम् ॥१८७॥
इत्थं कथा निगदिताः किल गोमुखेन शृण्वन्क्रमात्स नरवाहनदत्तदेवः ।
आसन्नवर्त्तिनवशक्तियशोविवाहसूत्कोऽपि तां क्षणमिव क्षणदां निनाय ॥१८८॥
एवं विनोद्य च दिनानि स राजपुत्र प्राप्त विवाहदिवसे पितुरन्तिकस्थः ।
वत्सेश्वरस्य नभसः सहसावतीर्णं वैद्याधरं उपनदीप्ति बलं ददर्श ॥१८९॥
सम्भ्र्ये च स्वकदुहितरं विदितां तां गृहीत्वा
प्रीत्या प्राप्तं स्फटिकयशसं वीक्ष्य विद्याधरेन्द्रम् ।
प्रत्युद्गम्य श्वशुर इति तं पूजयामास मूर्द्धा-
वत्सशेन प्रथमविहितातिथ्यमर्यादिना सः ॥१९०॥
सोऽप्यावेद्य यथार्हमम्बरचराधीशः क्षणात्कल्पिता-
ष्येवञ्चोचितदिव्यवैभवविधिः सिद्धिप्रभावात्ततः ।
रत्नोभप्रतिपूरिताय विभवद्वत्तेशपुत्राय तां
तस्मै स्वां विततार शक्तियशसं पूर्वप्रदिष्टां सुताम् ॥१९१॥
स च नरवाहनदत्तो भार्या विद्याधरेन्द्रतनयां ताम् ।
सम्प्राप्य शक्तियशसं पद्म इवार्कद्युतिं व्यरुजत् ॥१९२॥
स्फटिकयशत्युपयाते कौशाम्ब्यां पुरि स वत्सराजसुतः ।
शक्तियशोधवनाम्बुजसन्नवेक्षणषट्पदस्तदा तस्थौ ॥१९३॥
इति महाकविश्रीसोमदेवभट्ट-विरचिते कथासरित्सागरे शक्तियशो लम्बके
पञ्चमस्तरङ्गः समाप्तश्चायं
शक्तियशोळम्बको दशमः।