कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 1048, कुल 1079 में से
संदर्भ में पढ़ें१८८ कथासरित्सागर
तावता सावमानेन राजपुत्री मनस्विनी।
विहारव्यपदेशेन जगामोपवनं बहिः॥१४०॥
पानमत्तेषु भृत्येषु सञ्चरन्ती च तत्र सा।
प्रविश्य वृक्षगहनं तेषां दृष्टिपथमत्ययौ ॥१४१॥
गत्वा चैकाकिनी दूरं वनं विरचितोटजा।
फलमूलाशिनी तस्थौ हराराधनतत्परा ॥१४२॥
तत्पितापि स राजा तां बुद्ध्वा क्वापि ततो गताम्।
अन्वियेष न च प्राप महादुःखमुवाह च॥१४३॥
चिरात् किञ्चित्तनूभूतदुःखश्चित्तं विनोदयन्।
बुद्धिप्रभः स निरगान्मृगयायै महीपतिः॥१४४॥
भ्रमंश्च दैवात्तत्राप सुदूरं स वनान्तरम्।
तपस्यन्ती सुता सास्य यत्र हेमप्रभा स्थिता॥१४५॥
उटजं तत्र दृष्ट्वा स राजाभ्येत्य तदन्तरे।
असंकृतं तपःक्षामां तां ददर्श निजां सुताम्॥१४६॥
सापि दृष्ट्वा समुत्थाय पादयोः सहसाग्रहीत्।
आलिङ्ग्य च पिता तां च साश्रुरङ्के न्यवेशयत्॥१४७॥
तौ चान्योन्यं चिराद्दृष्ट्वा तथा रुरुदतुस्ततः।
उदश्रवो यथा तत्र वनेऽभूवन् मृगा अपि॥१४८॥
ततः शनैः समाश्वास्य राजावोचत् स तां सुताम्।
त्यक्त्वा राजश्रियं पुत्रि किमिदं विहितं त्वया॥१४९॥
तदेहि जननीपार्श्वं वनवासमिमं त्यज।
इत्युक्तवांस्तं जनकं सा तं हेमप्रभाभ्यधात्॥१५०॥
दैवेनैव नियुक्तास्मि शक्तिस्तात ममात्र का।
न चैष्यामि गृहं भोक्तुं न त्यजामि तपःसुखम्॥१५१॥
इति ब्रुवाणा सा तस्मान्निश्चयान्न चचाल यत्।
तद्राजाकारयत्तस्या वने तत्रैव मन्दिरम्॥१५२॥
गत्वा च राजधानीं स्वां प्रेषयामास सोऽन्वहम्।
तस्या अतिथिपूजाथं पक्वान्नानि धनानि च॥१५३॥
सा च हेमप्रभा तत्र धनैरन्नैश्च तैः सदा।
पूजयन्त्यतिथीनासीत्फलमूलाशिनी स्वयम्॥१५४॥