कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 1044, कुल 1079 में से
संदर्भ में पढ़ें१८४ कथासरित्सागर
शृणुष्वान्यां कथां चमां धूर्त्तस्यालीकमन्त्रिणः।
आसीत् पृथ्बीपतिर्नाम नगरे दक्षिणापथे ॥११०॥
तद्राष्ट्रे कोऽप्यभूद्धूर्त्तः परवञ्चनजीविकः।
स एकदा महच्छेत्वावसन्तुष्टो व्यचिन्तयत् ॥१११॥
धूर्त्तत्वेनेदृशा किं मे यथाहारादिमात्रकम्।
प्राप्यते महती येन श्रीस्तादृङ् न करोमि किम् ॥११२॥
इत्यालोच्य वणिग्वेषमप्युदारं विधाय सः।
उपासत्प्रतीहारं गत्वा द्वारं महीपते ॥११३॥
तमुक्त्वा प्रविश्यान्तं प्राभृतं चोपनीय सः।
एकान्तं मेऽस्ति विज्ञप्तिरिति व्यज्ञापयन्नृपम् ॥११४॥
राज्ञापि वेषशान्तेन प्राभृतावर्जितेन च।
तथेति रचिताैकान्तस्तमथ स व्यजिज्ञपत् ॥११५॥
दिनं दिने मया साकमास्थाने सर्वसन्निधौ।
मूर्तेकान्ते कथालापं क्षणमेकं कुरु प्रभो ॥११६॥
तावताहं प्रतिदिनं दीनारशतपञ्चकम्।
ददाम्युपायनं देवस्यार्थये न तु किञ्चन ॥११७॥
तच्छ्रुत्वाचिन्तयद्राजा को दोषः किमयं मम।
गृहीत्वा याति दीनारान् ददाति प्रत्युतान्वहम् ॥११८॥
महता वणिजा सार्धं कथालापेन का त्रपा।
इति स प्रतिपद्यैतद्राजा तस्य तथाकरोत् ॥११९॥
सोऽपि तस्मै ददौ राज्ञे दीनारांस्ता यथोदितान्।
लोकस्तं च महामन्त्रिपदं प्राप्तममन्यत ॥१२ ॥
एकस्मिंश्च दिने धूर्त्तो मुहुः पश्यन्नियोगिनः।
साकूतं मुखमस्य चक्रे राज्ञा समं कथाम् ॥१२१॥
निर्गतश्च वहिस्तेन मुखालोकनकारणम्।
दृष्ट्याधिकारिणा पृष्टः स स्मेरं च मृषावदत् ॥१२२॥
वेद्मो न लुब्धितोऽनेनेत्येष ते कुपितो नृपः।
मयात्वस्ते मुखं दृष्टं शमयिष्याम्यहं च तम् ॥१२३॥
इत्युक्तस्तेन सोऽलीकमन्त्रिणा समयो गृहम्।
मागत्याभिकृतं स्वर्णसहस्रं तस्य दत्तवान् ॥१२४॥