सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 1034, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 1034

१७४ कथासरित्सागर
आढ्यस्य किं च दानेन सुहितस्याशनेन किम् ।
किं चन्दनेन शीतातौ किं घनेन हिमागम ॥३५॥
तदेतानुद्धरत न कृपणानामयापदः ।
इत्युक्ता व्याधितैस्तैस्ता नृपभार्यादयोऽब्रुवन् ॥३६॥
सुष्ठूपपन्नं जल्पन्ति कृपणा व्याधिता इमे ।
सर्वस्वेनाप्यतोऽस्माभिः कार्यमेषां चिकित्सितम् ॥३७॥
एवमन्योन्यमारूप्य श्वश्रीमभ्यर्च्य योषितः ।
व्याधितांस्तान्स्वभवनान्यानिन्युस्ताः पृथक्पृथक् ॥३८॥
स्वभर्तॄन् प्रेर्य तेषां च महासत्त्वान् महौषधैः ।
चिकित्सां कारयामासुर्नोसिसृक्षुश्च तदन्तिकात् ॥३९॥
सहवासाच्च तैरेव सङ्गमूवुर्मतन्मये ।
तथा ययुस्ताः ससारं तमद्य ददृशुर्येषा ॥४०॥
क्व रोगिणोऽमी कृपणा भर्तारः क्व नृपादयः ।
इति न व्यमृशंस्तासां मन्मथान्धीकृतं मनः ॥४१॥
ततश्च ता असम्भाव्यरोगिसम्भोगसम्भवेः ।
नखदन्तक्षतैर्युक्ताः पतयो ददृशुर्निजाः ॥४२॥
तं च भूपालस्तन्मन्त्रिसेनापतिमुखास्तयः ।
सवाद्यम्यु ससन्देहाः परस्परमतन्त्रिताः ॥४३॥
ततो राजाऽब्रवीदन्यान्यूमं सम्प्रति तिष्ठत ।
अहमद्य निजां भार्या तावत्पृच्छामि युक्तितः ॥४४॥
इत्युक्त्वा तान्विसृज्यैव गत्वा वासगृहं च सः ।
प्रवशितस्नेहमयो भार्या पप्रच्छ तां नृपः ॥४५॥
दष्टं केनाधरोष्ठं तं क्षतो केन मखं स्तनौ ।
सत्यमाख्यासि चेदस्ति श्रेयस्ते नान्यथा पुनः ॥४६॥
इत्युक्त्वा तेन राज्ञा सा राज्ञी कृतक्रमप्रवीत् ।
अवाच्यमप्यथ याह्र वक्ष्याश्चर्यमिदं शृणु ॥४७॥
चित्रभित्तरितो रात्रौ पुमांश्छन्नगदाधरः ।
निर्गत्यैवोपाभुङ्क्ते मां प्रातश्चात्रव लीयते ॥४८॥
यदङ्गं चन्द्रसूर्याभ्यामपि दृष्टं न जातु मे ।
तत्रेदृगेत्य क्रियते तेनावस्था स्थिते त्वयि ॥४९॥