सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 1032, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 1032

१७२ कथासरित्सागर
प्रव्राड्वसन्नस्थितोऽत्रैव तरुमूले तदन्तरात् ।
यक्षस्यालापमशृणोत्क्रीडतो भार्यया सह ॥२०॥
कर्णं ददाति यावच्च स प्रव्राट् तावदत्र सः।
यक्षः पुष्पलतां भार्यां नर्मणा तामताडयत् ॥२१॥
तावच्च मृतकल्पं सा कृत्वात्मानं शठा मुधा।
तस्योत्सवरिवारश्च मुक्ताक्रन्दो झगित्‍यभूत् ॥२२॥
चिराच्चागतजीवेव सा वृथावदुदमील्यत् ।
किं त्वया दृष्टमिति तां यक्षोऽप्राक्षीत्ततः पतिः ॥२३॥
अथ मिथ्यैव साबोचत् त्वयाहं माम्न्या यदा।
अभ्याहता तदापश्यं कृष्णं पुरुषमागतम् ॥२४॥
पाशहस्तं ज्वलन्नेत्रं प्रांशुमूर्ध्वशिरोरुहम् ।
भयानकं निजच्छायाम्लिनीकृतदिक्तटम् ॥२५॥
तेन नीताहमभवं दुष्टेन यममन्दिरम् ।
त्याजितास्मि च तत्रत्यैस्तं निवार्याधिकारिभिः ॥२६॥
एवं तयोक्ते यक्षिण्या हसन्यक्षो जगाद ताम् ।
अहो विनेन्द्रजालेन स्त्रीणां चेष्टा न विद्यते ॥२७॥
को मृत्युः कुसुमाघातादावृत्तिः का यमालयात् ।
मूढे पाटलिपुत्रस्त्रीवृत्तान्तोऽनुकृतस्त्वया ॥२८॥
तस्मिन्हि नगरे राजा योऽस्ति सिंहाक्षनामकः ।
तद् भार्या मन्त्रिसनानीपुरोहितभिषग्वधूः ॥२९॥
सहादाय त्रयोदश्यां शुक्लपक्ष कदाचन ।
सनाधीकृततद्देशामागाद्द्रष्टुं सरस्वतीम् ॥३०॥
तत्र सन्मार्गमिलितैः सर्व्वा कुब्जान्धपङ्गुभिः ।
व्याधितैरित्यभाष्यन्त भूपालप्रमुखाङ्गनाः ॥३१॥
रोगातुराणां दीनानामौषधं न प्रयच्छत ।
येन मुच्यामहे रोगात्कुरुतात्तदनुकम्पनम् ॥३२॥
समुद्रलहरीलोलो विद्युत्स्फुरितभङ्गुरः ।
जीवलोको ह्ययं यात्रोत्सवक्षणसुन्दरः ॥३३॥
तदधारेऽत्र संसारे सारं दीनेषु या दया।
कृपणेषु च यद्दानं गुणवान् क्व न जीवति ॥३४॥